भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 685, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 685

सप्तमोऽध्यायः। ( ७७ )

  • त्रिचक्रादीनां छन्दस्युपसंख्यानम् * ६ । २ । १९९ ॥ त्रिचक्र त्रिवृत् । त्रिवङ्कर ॥ इति त्रिचक्रादिः ॥ आकृतिगणः ॥ २५ ॥ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु । ६ । ३ । ३४ ॥ प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा स्वसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया ॥ इति प्रियादिः ॥ २६ ॥ तसिलादिष्वाकृत्वसुचः । ६ । ३ । ३५ ॥ तसिल् त्रल् तरप् तमप् चरट् जातीयर् कल्पप् देशीयर् रूपप् पाशप् थल् थाल् दा हिँल् तिल् ध्यन् ॥ इति तसिलादयः ॥ २७ ॥
  • कुक्कुट्यादीनामण्डादिषु * ६ । ३ । ४२ ॥ कुक्कुटी मृगी काकी अण्ड पद शाव भृकुंस भृकुटी ॥ इति कुक्कुट्यादिरण्डादिश्च ॥ २८ ॥ २९ ॥ पृषोदरादीनि यथोपदिष्टम् । ६ । ३ । १०९ ॥ पृषोदर पृषोत्थान वलाहक जीमूत श्मशान उलूखल पिशाच बृसी मयूर ॥ इति पृषोदरादिः ॥ आकृतिगणः ॥ ३० ॥ वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् । ६ । ३ । ११७ ॥ १ कोटर मिश्रक सिध्रक पुरग सारिक ( शारिक ) इति कोटरादिः ॥ ३१ ॥ २ किंशुलक शाल्व नड अञ्जन भञ्जन लोहित कुक्कुट ॥ इति किंशुलकादिः ॥ ३२ ॥ मतौ बह्वचोऽनजिरादीनाम् । ६ । ३ । ११९ ॥ अजिर खदिर पुलिन हंसक ( हंस ) कारण्ड ( कारण्डव ) चक्रवाक ॥ इत्यजिरादिः ॥ ३३ ॥ शरादीनां च । ६ । ३ । १२० ॥ शर वंश धूम अहि कपि मणि मुनि शुचि हनु ॥ इति शरादिः ॥ ३४ ॥
  • अपील्वादीनामिति वक्तव्यम् * ६ । ३ । १२१ ॥ पीलु दारु रुचि चारु गम्- कम् ॥ इति पील्वादिः ॥ ३५ ॥ बिल्वकादिभ्यश्छस्य लुक् । ६ । ४ । १५३ ॥ छविधानार्थे ये नडादयस्ते यदा छसन्नियोगे कृतकुगागमास्ते बिल्वकादयः ॥ ३६ ॥ सप्तमोऽध्यायः । स्नात्व्यादयश्च । ७ । १ । ४९ ॥ स्नात्वी पीत्वी ॥ इति स्नात्व्यादिः ॥ आकृ- तिगणः ॥ १ ॥ द्वारादीनां च । ७ । ३ । ४ ॥ द्वार स्वर स्वाध्याय व्यल्काश स्वस्ति स्वर स्फ्यकृत् स्वादु मृदु श्वस् श्वन् स्व ॥ इति द्वारादिः ॥ २ ॥ स्वागतादीनां च । ७ । ३ । ७ ॥ स्वागत स्वध्वर स्वङ्ग व्यङ्ग व्यड व्यवहार स्वपति ॥ इति स्वागतादिः ॥ ३ ॥ अनुशतिकादीनां च । ७ । ३ । २० ॥ अनुशतिक अनुहोड अनुसंवरण ( अनुसंचरण ) अनुसंवत्सर अङ्गारवेणु असिहत्य अस्यहत्य अस्येहति वध्योग पुष्करसद् अनुहरत् कुरुकत