वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 69, कुल 835 में से
संदर्भ में पढ़ेंशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥ नमस्पुरसोर्गत्योः ।८।३।४० ॥ गति- संज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात् कृञो योगे विभाषा गतिसंज्ञा । तदभावे-नमः करोति ॥ पुरोऽव्ययमिति नित्यं गतिसंज्ञा । पुरस्करोति । अगति- त्वान्नेह । [ पूः पुरौ ] पुरः प्रवेष्टव्याः ॥ इदुदुपधस्य चाप्रत्ययस्य ।८।३।४१ ॥ इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति ॥ एकादेशशास्त्रनिमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न मातुः कृपा ॥ मुहुस्स्रः प्रतिषेधः॥* मुहुःकामा॥ तिरसोऽन्यतरस्याम् ।८।३।४२ ॥ तिरसः सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरःकर्ता ॥ द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ।८।३।४३ ॥ कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यादि । कृत्वोऽर्थे किम् ? चतुष्कपालः ॥ इसुसोः सामर्थ्ये ।८।३।४४ ॥ एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिः करोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । सामर्थ्ये किम् ? तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥ नित्यं समासेऽनुत्तरपदस्थस्य ।८।३।४५ ॥ इसुसोर्विसर्गस्यानुत्तरपद- स्थस्य नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालम् । अनुत्तरपदस्थस्येति किम् ? परमसर्पिःकुण्डिका ॥ कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेपि षत्वार्थः । व्यपेक्षायां नित्यर्थश्च ॥ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।८।३।४६ ॥ अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् ?