वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 70, कुल 835 में से
संदर्भ में पढ़ेंस्वादिसंधिप्रकरणम् । ( २१ ) त्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधः पदम् । शिरः पदम् ॥ अनुत्तरपदस्थस्येत्येव । परमशिरःपदम् ॥ कष्कादिषु च ॥ भास्करः ॥ इति विसर्गसंधिप्रकरणम् । अथ स्वादिसंधिप्रकरणम् । स्वौजसमौडिति सुप्रत्यये शिवस् अर्च्य इति स्थिते ॥ ससजुषो रुः ॥ ८।२।६६ ॥ पदा- न्त्यस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥ अतो रोरप्लुतादप्लुते ॥ ६।१।११३ ॥ अप्लुतादतः परस्य रो रुँः स्यादप्लुतेऽति । भोभगोअघो इति प्राप्तस्य यत्व- स्यापवादः ॥ उत्वं प्रति रुत्वस्याऽसिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥ प्रथमयोः पूर्वसवर्णः ॥ ६।१।१०२ ॥ अकः प्रथमाद्वितीयोर्यरिच परे पूर्वसवर्णदीर्घ एका-