वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 707, कुल 835 में से
संदर्भ में पढ़ेंलिङ्गानुशासनम् । १ लिङ्गम् । २ स्त्री । ३ ऋकारान्ता मातृदुहितृस्वसृपोतृननान्दरः । ४ अन्यूत्प्रत्ययान्तो धातुः । ५ अशनिमरण्यरणयः पुंसि च । ६ मिन्यन्तः । ७ वह्निविष्ण्वमयः पुंसि । ८ श्रोणियोन्यूर्मयः पुंसि च । ९ क्तिन्नन्तः । १० इकारान्तश्च । ११ ङड्याबन्तश्च । १२ व्यन्तमेकाक्षरम् । १३ विंशत्यादिरा नवतेः । १४ दुन्दुभिरक्षेषु । १५ नाभिरक्षत्रिये । १६ उभावन्यत्र पुंसि । १७ तलन्तः । १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि । १९ यादो नपुंसकम् । २०- भास्स्त्रक्स्रग्दिग्वृगुष्णिगुपानहः । २१ स्थूणोर्णे नपुंसके च । २२ गृहश- श्शाम्यां क्लीबे । २३ प्रावृट्द्विप्रुड्ऋत्विष्ट्रिट्त्विषः । २४ दर्विविदिवेदिखनिशाण्यभ्रिविशिकृष्योष- धिकटद्यंगुलयः । २५ तिथिनाडिरुचिवीचिनालिवूलिकिकिकेकिलेच्छविराश्यादयः । २६ शष्कु- लिराजिकुञ्चनवनिर्वृत्तिक्षुकुटित्रुटिवलिंपंक्तयः । २७ प्रतिपदाद्विपत्संपच्छरत्संसत्परिषद्वुषःसंवि- त्क्षुद्युन्मुत्समिधः । २८ आशीर्भूधूर्द्वारः । २९ अप्सुमनस्समासिकतावर्षीणां बहुत्वं च । ३० स्रक्त्वग्जोग्माग्यवानुंगौस्फिचः । ३१ तटिसीमासंबध्याः । ३२ चूलिह्वेणिखार्यश्च । ३३ ताराधारांज्योत्स्नादयश्च । ३४ शलाका स्त्रियां नित्यम् ॥ १ पुमान् । २ घञबन्तः । ३ घाजन्तश्च । ४ भयलिङ्गभगपदानि नपुंसके । ५ नडन्तः । ६ याच्ञा स्त्रियाम् । ७ क्यन्तो घुः । ८ इषुधिः स्त्री च । ९ देवासुरात्मस्वर्गगिरिसमुद्र- नखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि । १० त्रिविष्टपत्रिभुवने नपुंसके । ११ द्यौः स्त्रियाम् । १२ इषुबाहू स्त्रियां च । १३ बाणकाण्डौ नपुंसके च । १४ नन्तः । १५ ऋतुपुरुषकपोलगुल्फमेषाभिधानानि । १६ अभ्रं नपुंसकम् । १७ उकारान्तः । १८ धेनुर- ज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् । १९ समासे रज्जुः पुंसि च । २० श्मश्रुजानुस्वादुश्व- जतुत्रपुताल्व॑ नपुंसके । २१ वसु चार्थवाचि । २२ मद्गुमधुशीधुसानुकमण्डल्विन नपुंसके च । २३ रुत्वन्तः । २४ दारुकेसेरुजत्रुवस्तुमस्तूनि नपुंसके । २५ सक्तुर्नपुंसके च । २६ प्राग्रश्मेरका- रान्तः । २७ कोपधः । २८ चिबुकशाल्लकप्रतिपदिकाङ्गुकोल्मुकानि नपुंसके । २९ कण्टकानी- कसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डककटकदण्डकपिटकताळका- फलककल्कपुलाकानि नपुंसके च । ३० टोपधः । ३१ किरीटमुकुटललाटवटवीटश्रृङ्गाटककरट- लोष्टानि नपुंसके । ३२ कुटकूटकपटकापटकर्कटनटनिकटकीटकटानि नपुंसके च । ३३ णोपधः । ३४ ऋणलवणपर्णतोरणरणोष्णानि नपुंसके । ३५ कार्षापणस्वर्णसुवर्णव्रणचरणवृणविषाणचूर्ण- तृणानि नपुंसके च । ३६ थोपधः । ३७ काष्ठपृष्ठरिक्थोक्थानि नपुंसके । ३८ काष्ठा दिगर्थाः स्त्रियाम् । ३९ तीर्थप्रोथयूथगाथानि नपुंसके च । ४० नोपधः । ४१ जघनाजिनतुहिनकान- नवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके । ४२ मानयानाभि- धाननलिनपुलिनोधनशयन(सनस्थानचन्दनाल(नसमानभवनवसनविभावनविमानानि नपुंसके च ।