वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 706, कुल 835 में से
संदर्भ में पढ़ें(९८) धातुपाठे चुरादिगणः । अनुदात्तेत् ॥ ३९० स्तोम श्लाघायाम् । ३९१ छिद्र कर्णभेदने । करणभेदने इत्येके । कर्ण इति धात्वन्तरमित्यपरे ॥ ३९२ अन्ध दृष्ट्युपघाते ॥ उपसंहारे इत्यन्ये ॥ ३९३ दण्ड दण्डनिपातने । ३९४ अङ्क पदे लक्षणे च । ३९५ अङ्ग च । ३९६ सुख ३९७ दुःख तत्क्रियायाम् । ३९८ रस आस्वादनस्नेहनयोः । ३९९ व्यय वित्तसमुत्सर्गे । ४०० रूप रूपक्रियायाम् । ४०१ छेद द्वैधीकरणे । ४०२ छद अपवारणे । ४०३ लाम प्रेरणे । ४०४ व्रण गात्रविचूर्णने । ४०५ वर्ण वर्णक्रियाविस्तारगुणवचनेषु ॥ बहुलमेतन्निदर्शनम् ॥ ४०६ पर्ण हरितभावे । ४०७ विष्क दर्शने । ४०८ क्षप प्रेरणे । ४०९ वस निवासे । ४१० तुत्थ आवरणे ॥ णिङङ्गान्निरसने । श्वेताश्वाश्वतरगालोहिताहरकाणामश्वतरेतकलोपश्च । पुच्छादिषु प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम् ॥ इति स्वार्थणिजन्ताश्चुरादयः ॥ १० ॥ इति श्रीपाणिनिमुनिप्रणीतो धातुपाठः समाप्तः ॥