वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 74, कुल 835 में से
संदर्भ में पढ़ें४।१।१ ॥ ङ्यन्तादाबन्तात्प्रातिपदिकाच्चेत्यापञ्चमपरिसमाप्तेरधिकारः । प्रातिपदिकग्रहणं लिङ्गविशिष्टस्यापि ग्रहणमित्येव सिद्धे *ङ्याब्ग्रहणं ङ्याबन्तात्तद्धितोत्पत्तिर्यथा स्यात् ङ्या- ब्भ्यां प्राङ् मा भूदित्येवमर्थम् ॥ स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्- ङसोसाम्ङ्योस्सुप् ।४।१।२ ॥ ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुडस्योरुकारेकारौ जशटङपाश्चेतः ॥ विभक्तिश्च ।१।४।१०४ ॥ सुप्तिङौ विभक्तिसंज्ञौ स्तः तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ॥ सुपः ।१।४।१०३ ॥ सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचन- संज्ञानि स्युः॥ द्व्येकयोर्द्विवचनैकवचने ।१।४।२२॥ द्वित्वैकत्वयोरेते स्तः॥ बहुषु बहुवचनम् ।१।४।२१ ॥ बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । रामः ॥ सरूपाणामेकशेष एकविभक्तौ । १।२।६४ ॥ एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेकं एव शिष्यते ॥ प्रथमयोः पूर्वसवर्णः ॥ नादिचि ॥ वृद्धिरेचि ॥ रामौ ॥ चुटू ।१।३।७ ॥ प्रत्ययाद्यौ चुटू इतौ स्तः ॥ इति जस्येत्सं- ज्ञायाम् ॥ न विभक्तौ तुस्माः ।१।३।४ ॥ विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः ॥ इति सकारस्य नेत्त्वम् ॥ अतो गुणे ।६।१।९७ ॥ अपदान्तादकाराद्गुणे परतः पररूपमे- कादेशः स्यात् ॥ इति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । 'अतो गुणे' इति हि पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरानिति न्यायेनाकः सवर्ण इत्यस्यैवायमपवादो न तु 'प्रथम- योरित्यस्यापि । रामाः ॥ एकवचनं संबुद्धिः ।२।३।४९ ॥ संबोधने प्रथमाया एकवचनं १ समानाकरणाधिकारे 'युवा खलतिपलितवलिनजरतीभिः' इति जरतींशब्देन समा- सविधायकसूत्रमनुपपन्नं सत् परिभाषायामस्यां ज्ञापकमिति भावः ॥ ट्यूड्न्तेभ्यो ड्याव्ग्रहणेऽप्याप्तेरावश्यकै- वेति भावः ॥ * तथा च आर्याशब्दात् के कृते 'उदीचामातः स्थाने' इति विकल्पे 'आर्यिका आर्यका' इति लोहिनीशब्दात् कप्रत्यये 'लोहिनिका' इति सिध्यति ॥ २ 'एतर्हि' इत्यत्र 'सुपि च' इत्येतद्वारगाय प्राग्दिशीयानां सुप्संज्ञा न कृता त्यदाद्यत्वोपपत्तये विभक्तिसंज्ञैव कृतेति भावः ॥ ३ सूत्रे 'द्व्येकयोः' इति धर्मपरो निर्देश इति भावः ॥ ४ एकग्रहणं स्पष्टार्थमेव विभक्तेः सादृश्य उपलक्षणत्वेन परिच्छेत्तृवाचकमातृशब्दस्य 'मातरौ' इति रूपसंभवेन जननीवाचिमातृशब्दस्य 'मातरौ' इति रूपसंभवेन सादृश्याभावादेकशेषो न भवति । हरिणस्त्रीहरितवर्णस्त्रीवाचिनोर्हरिणीशब्दस्यैकशेषो भव- त्येवेति बोध्यम् ॥ ५ अन्ये लुप्यन्ते । यः शिष्यते स लुप्यमानार्थाभिधायी ॥ ६ 'तौ सत्' इति निर्देशेन अष्टावसरन्यायो न प्रवर्तते । हननोद्यतव्याधस्यैव हनने पशुजीवनमव्याहतमेवेति प्रागुक्तमेव ॥ ७ इत्त्वम् इत्संज्ञा 'हलन्त्यम्' इति प्राप्ता ॥ ८ 'एकः पूर्वपरयोः' 'एङि पररूपम्' 'ङस्यपदान्ताद्' इत्यतोऽनुवर्त्याह-अपदान्तादित्यादि ॥ 'सः' इत्यत्र चरितार्थस्य 'अतो गुणे' इत्यस्य 'हरी' इत्यत्र चारितार्थस्य पूर्वसवर्णदीर्घस्य च 'राम+अस्' इत्यत्र प्राप्तौ परत्वात् 'प्रथमयोः पूर्वसवर्णः' इति पूर्वसवर्णदीर्घ एव भवतीति भावः ॥ ९ अयं भावः-'अतो गुणे' इति पररूपविधिर्वृद्धिदीर्घयोरपवादभूतो दीर्घमात्रं नैव बाधते प्रागुपस्थितस्य 'अकः सवर्णे' इत्यस्य बाधेन श्रान्तत्वात्कृतकृत्यत्वाच्चेति 'प्रथमयोः' इति दीर्घं बाधितुं नोत्सहते इति भावः ॥ १० 'संबोधने च' 'प्रातिपदिकार्थ-' इत्यतः 'संबोधने' इति 'प्रथमा' इति चानुवर्तते इति भावः ॥