वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 75, कुल 835 में से
संदर्भ में पढ़ेंसंबुद्धिसंज्ञं स्यात् ॥ एङ्ह्रस्वात्संबुद्धेः । ६।१।६९ ॥ एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धेर्लुप्यते संबुद्धे- श्चेत् ॥ संबुद्ध्योक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह-हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एङ्ग्रहणं किम् ? हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ॥ अमि पूर्वः । ६।१।१०७ ॥ अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् ॥ रामम् । रामौ ॥ लशकतद्धिते । १।३।८ ॥ तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥ इति शसः शस्येत्संज्ञा ॥ तस्माच्छसो नः पुंसि । ६।१।१०३॥ पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य नः स्यात्पुंसि ॥ अट्कुप्वाङ्नुम्व्यवायेऽपि । ८।४।२॥ अट् कवर्गः पवर्ग [L8