वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 76, कुल 835 में से
संदर्भ में पढ़ेंअजन्तपुँल्लिङ्गप्रकरणम् । ( २७ ) स्त्री इयती ॥ प्रत्यये किम् ? प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूत् ॥ अङ्गस्य ! ६।४।१ ॥ इत्यधिकृत्य ॥ टाङसिङसामिनात्स्याः । ७।१।१२ ॥ अकारान्तादङ्गाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् । रामेण ॥ सुपि च । ७ । ३ । १०२ ॥ यञादौ सुपि परे अतोऽङ्गस्य दीर्घः स्यात् ॥ रामाभ्याम् ॥ अतो भिस ऐस् । ७ । १ । ९ ॥ अकारा- न्तादङ्गाद्भिस ऐस् स्यात् ॥ अनेकाल्त्वात्सर्वादेशः । रामैः ॥ ङेर्यः । ७।१।१३ ॥ अतोऽ- ङ्गात्परस्य ङे इत्यस्य यादेशः स्यात् ॥ रामाय । इह स्थानिवद्भावेन यादेशस्य सुप्त्वात्सुपि चेति दीर्घः । संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् ॥ रामाभ्याम् ॥ बहुवचने झल्येत् । ७।३।१०३ ॥ झलादौ बहुवचने सुपि परे अतोऽङ्गस्यैकारः स्यात् । रामेभ्यः ॥ बहुवचने किम् ? रामः । रामस्य ॥ झलि किम् ? रामाणाम् ॥ सुपि किम् ? पचध्वम् ॥ जश्त्वम् ॥ वावसाने ।८।४।५६ ॥ अवसाने झलां चरो वा स्युः ॥ रामात्, रामाद् । द्वित्वे रूपचतु- —इति स्थिते ‘यस्येति च’ इति ईकारलोपे ‘उगितश्च’ इति ङीपि ‘इयती’ इति प्रकृतिरहितं प्रत्ययमात्रम् अव- शिष्यते । एवं च ‘स्त्री इयती’ इति प्रयोगे स्त्रीशब्दात् यः सुप्रत्ययः कृत आसीत् स न श्रूयते किन्तु इदम् शब्दाद् कृत ‘इयती’ इति प्रत्यय एव श्रूयते । अत्र ‘स्त्री’ शब्दस्याजादि ‘इयत्’ इति प्रत्ययनिरूपिताङ्गत्वे ‘स्त्रियाः’ इति सूत्रेण ईयङादेशापत्तिः स्यादतो विधिग्रहणम् । कृते तु तस्मिन् इयत्प्रत्ययस्य स्त्रीशब्दाद्विहित- त्वाभावेन इदम् शब्दादेव विहितत्वेन न स्त्रीशब्दस्याङ्गसंज्ञा किंतु इदम् शब्दस्यैवाजादिप्रत्ययनिरूपिताङ्गसंज्ञा । स्त्रीशब्दस्य तु सुप्रत्ययनिरूपितैवाङ्गसंज्ञेति न इयङादेशापत्तिरिति भावः ॥ १ ‘सुपि च’ इत्यादिसूत्रैः सुवादिप्रत्ययाव्यवहितपूर्वस्यैवाङ्गस्य कार्यविधानेन प्रत्ययस्य नैव भविष्यत्यङ्ग- संज्ञेति व्यर्थमेव ‘प्रत्यये’ इति सप्तम्यन्तग्रहणमिति शङ्कते—प्रत्यये किमिति ॥ यत्र क्वचित् सप्तम्यन्तं निमित्तपदं नैव श्रूयते तत्र ‘तस्मिन्निति’ इति परिभाषाया अनुपस्थित्या ‘पूर्वस्य’ इत्यस्यानुपस्थित्या प्रत्ययविशिष्टस्यैवाङ्गसंज्ञायां तद्विहितकार्यस्य परनिमित्तकत्वं न स्याद् अतः ‘प्रत्यये’ इति कार्यमेव । अत्र सूत्रे ‘प्रत्यये’ इति कृते सर्वत्राङ्गाधिकारे ‘प्रत्यये’ इति सप्तम्यन्तस्यागलोपस्थितर्भवेत्येवेति ‘उरत्’ इत्यत्र ‘प्रत्यये’ इत्यस्याधिकाराभावेऽपि अङ्गसंज्ञायाः प्रत्ययपरत्वमन्तराऽसंभवेन ‘प्रत्यये’ इति सप्तम्यन्तमा- क्षिप्यत एवेति तद्विहितस्य अभ्यासह्रस्वर्णस्थानिकाकारस्य परनिमित्तत्वेन स्थानिवत्त्वात् ‘न संप्रसारणे संप्रसा- रणम्’ इति निषेधेन पुनः संप्रसारणं ‘वत्रश्च’ इत्यत्र न भवति । किं च ‘देवदत्त ओदनमपाक्षीत्’ इत्यत्र देवदत्तशब्दात् सुप्रत्ययो विहित इति देवदत्तादिकसमुदायस्याङ्गसंज्ञायां देवदत्तशब्दात् प्रागडागमापत्तिः स्यात् ‘प्रत्यये’ ग्रहणाभावे, ‘प्रत्यये’ ग्रहणे कृते तु ‘यः प्रत्ययो विहितः तत्प्रत्ययपूर्वभागस्यैव प्रत्यासत्त्या लभ्यते’ इति प्रत्यये परतो देवदत्तस्यैवाङ्गसंज्ञा लुङ्गिरूपिता ऽङ्गसंज्ञा तु ‘पच्’ धातोरेवेति न देवदत्तात् प्रागडागमापत्तिरिति भावः ॥ २ अङ्गाधिकारसामर्थ्याद् भिस्र् प्रत्यय एव गृह्यते तेन ‘ब्राह्मणभित्सा’ इत्यादौ नैव ऐसादेशापत्तिः ॥ ३–भ्यामादिष्वपि सुप्त्वस्य सत्त्वात् स्थान्यलसाधारणधर्मत्वाभावेन ‘अनल्विधौ’ इति प्रतिषेधाप्रवृत्तेरिति भावः ॥ ४ संनिपातेति ॥ उपजीव्यविरोधमूर्लिकैवेति संनिपातो द्वयोः संबन्धः । ययोर्द्वयोः संबन्धं निमित्ती- कृत्य जायमानो विधिस्तयोर्द्वयोः संबन्धविघातकस्य निमित्तं न भवतीत्यर्थः । एवं च ह्रस्वाकारान्ताङ्ग-ङे संनिपातलक्षणो यादेशो ह्रस्वाकारान्तत्वविघातकस्य दीर्घस्य निमित्तं न भवतीति दीर्घाप्राप्तिरिति भावः ॥ ५ ‘प्रत्ययः’ ‘सर्वस्य’ ‘ताभ्याम्’ ‘आचार्याणाम्’ इत्यादिनिर्देशैरनित्यत्वारणे सिद्धे ‘नास्रूया कर्तव्या यत्रानु- गम आचार्थेण क्रियते’ इति भाष्येण सौत्रनिर्देशेष्वपि सौत्रत्वकल्पनावारणाय शास्त्रान्वितत्वसंपादनाय तत्तत्प्र[- दानमिति तत्त्वम् ॥