भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 77, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 77

( २८ ) सिद्धान्तकौमुद्याम्- ष्ठ्यम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे ‘खरि चेति चर्त्वेऽप्यान्तरतम्या- त्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अत एव ‘सः सीति तादेश आरभ्यते ॥ ओसि च ।७।३।१०४ ॥ ओसि परे अतोऽङ्गस्य एकारः स्यात् ॥ रामयोः ॥ हस्वनद्यापो नुट् ।७।१।५४ ॥ ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥ नामि ।६।४।३ ॥ नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् ॥ रामाणाम् । सुपि चेति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते संनिपातपरिभाषाविरोधात् । ‘नामीत्यनेन त्वारम्भसामर्थ्यात्परि- भाषा बाध्यते । रामे । रामयोः ॥ सुपि एत्त्वे कृते ॥ अपदान्तस्य मूर्धन्यः ।८।३।५५ ॥ आपादपरिसमाप्तेरधिकारोऽयम् ॥ इण्कोः ।८।३।५७ ॥ इत्यधिकृत्य ॥ आदेशप्रत्यययोः ८।३।५९ ॥ सहेः साडः स इति सूत्रात्स इति षष्ठ्यन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्या- पदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् ॥ विवृताघोषस्य सस्य तादृश एव षः । रामेषु ॥ इण्कोः किम् ? रामस्य ॥ आदेशप्रत्यययोः किम् ? सुपीः सुपिसौ सुपिसः ॥ अपदान्तस्य किम् ? हरिस्तत्र ॥ एवं कृष्णमुकुन्दादयः ॥ सर्वादीनि सर्वनामानि ।१।१।२७ ॥ सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः ॥ तदन्तस्यापीयं संज्ञा । द्वन्द्वे चेति ज्ञापकात् । तेन परमसर्वत्रेति त्रल् । परमभवकानित्यत्राकच् सिद्ध्यति ॥ जसः शी ।७।१।१७ ॥ अदन्तात्सर्वनाम्नः परस्य जसः शी स्यात् ॥ अनेकाल्त्वात्सर्वा- देशः । नचावर्णस्तृ इत्यादाविव नानुबन्धकृतमनेकाल्त्वमिति वाच्यम् । सर्वादेशत्वात्प्रागि- त्संज्ञाया एवाभावात् । सर्वे ॥ सर्वनाम्नः स्मै ।७।१।१४ ॥ अतः सर्वनाम्नो ङे इत्यस्य स्मै १ सकारस्य महाप्राणत्वात् तकारस्याल्पप्राणत्वादिति भावः ॥ २ अयं भावः-यदि चर्त्वेन सकारस्य तकारः स्यात् तर्हि ‘सः सि’ इति सूत्रं व्यर्थमेव स्यात् । पञ्चाशतो विंशतिरन्तर्गता, षष्टिर्बहिर्गता, इति व्यवहारस्य सर्वाङ्गीकृतत्वेन ‘अल्पापेक्षमन्तरङ्गम्, बह्वपेक्षं बहिरङ्गम्’ इत्यत्रापि लक्षणे बाधकाभावेन केवलशरपेक्षे ‘चयो द्वितीयाः’ इति द्वितीयादेशे कर्तव्ये आर्धधातुकसकारापेक्षस्य तादेशस्यासिद्धत्वेन ‘चर्त्वे द्वितीयादेशो न तकारे तु द्वितीयादेशः’ इति फलभेदाभावादिति ॥ ३-इडागमे तु ‘ज्ञान इ ओस्’ इत्यवस्थायां परत्वादङ्ग- त्वाच्च नुमि गुणे ‘ज्ञानेनोः’ इत्यापत्तिः स्यात्, इडागमे ‘गङ्गे’ इत्यत्र संबुद्धिश्रवणापत्तिः पञ्चमीसमासेन स्थानिव- त्वाद् इकारव्यवधानेन हल्ङ्यादिलोपाप्राप्तेः ‘एङ्ह्रस्वात्’ इत्यस्याप्राप्तेश्चेत्यभिप्रेत्याह-एकार इति ॥ ४ ‘आमि’ इत्येवं न्यासे ‘नोपधायाः’ इत्यत्रापि ‘आमि’ इत्यनुवृत्तौ ‘चर्मणाम्’ इत्यत्र दीर्घापत्तिरतः स- नकारनिर्देश इति भावः ॥ ५ यदि तु ‘एङ्ह्रस्वात्’ इति सूत्रभाष्ये ‘हे कुण्ड’ इत्यादौ ‘आदेः परस्य’ इति अकारलोपे ‘सुपि च’ इति दीर्घे ‘हे कुण्डाम्’ इति दीर्घापत्तिदानेन ‘सुपि च’ इति सूत्रविधेयदीर्घमात्रे संनि- पातपरिभाषाया अप्रवृत्तिः सूच्यते इति विभाव्यते, तदा हरीणामित्याद्यर्थमावश्यकं सूत्रमिहापि न्याय्यत्वाद्दु- ष्टन्यस्तमिति ध्येयम् ॥ ६ कतीनामित्यत्र ‘षट्चतुर्भ्यश्च’ इति नुटि दीर्घस्य चारितार्थ्यमिति तु ‘नैकमुदा- हरण योगारम्भं प्रयोजयति’ इति भाष्येण दूषितमेवेति भावः ॥ ७ ‘बाधकान्येव निपातनानि’ इति लोकेपि षत्वं नैव भवतीति भावः ॥ ८ ‘अदन्तादङ्गात्परस्य सर्वनाम्नो

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 77, कुल 835 में से · BharatKosha