वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 78, कुल 835 में से
संदर्भ में पढ़ेंअजन्तपुँल्लिङ्गप्रकरणम् । ( २९ ) स्यात् ॥ सर्वस्मै ॥ ङसिङ्योः स्मात्स्मिनौ ॥ ७।१।१५ ॥ अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः ॥ सर्वस्मात् ॥ आमि सर्वनाम्नः सुट् ॥ ७।१।५२ ॥ अवर्णान्तात्परस्य सर्वनाम्नो विहि- तस्यामः सुडागमः स्यात् ॥ एत्वँषत्वे । सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् ॥ एवं विश्वादयो- ऽप्यदन्ताः ॥ सर्वादयश्च पञ्चत्रिंशत् । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद्, तद्, यद्, एतद्, इदम्, अदस् एक, द्वि, युष्मद्, अस्मद्, भवतु, किम्, इति ॥ उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । तस्येह पाठस्तु उभकावित्यकजर्थः । नच कप्रत्ययेनेष्टसिद्धिः । द्विवचनपरत्वाभावेनोभयत उभयत्रेत्यादाविवायच्प्रसङ्गात् । तदुक्तम्-उभयोऽन्यत्रेति ॥ अन्यत्रेति द्विवचनपरत्वाभावे ॥ उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । तस्माजस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया प्रथमचरमेति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये । डतरडतमौ प्रत्ययौ । 'प्रत्य- यग्रहणे तदन्तग्रहणम्' इति तदन्ता ग्राह्याः । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्त- १ 'अदन्तादङ्गात् परयोः सर्वनाम्नो विहितयोः' इत्यर्थः ॥ २ अवर्णान्तादङ्गादित्यर्थः ॥ तेन तेषा- मित्यादौ नानुषपत्तिः । वर्णाश्रमेतराणाम् इत्यादौ नापत्तिरिति भावः ॥ ३ अवर्णान्तमङ्गमाश्रित्य जायमानः सुट् कथमवर्णान्ताङ्गविघातकस्य एत्वस्य निमित्तमिति चेत् 'हलि सर्वेषाम्' इत्यत्र 'सर्वेषाम्' इति निर्देशेन एत्त्वविषये संनिपातपरिभाषाया अप्रवृत्तिसूचनादिति बोध्यम् ॥ ४ अकजर्थ इति ॥ 'अव्यय- सर्वनाम्नामकच् प्राक् टेः' इति सर्वनामसंज्ञामन्तरा ऽकज्नुपपत्तेरिति भावः ॥ ५ 'उभकौ' इति प्रयोगे कका- रश्रवणमेवाकच्प्रयोजनं चेत् तत् कप्रत्ययेनैव सेत्स्यतीति शङ्कामपनयति-नच कप्रत्ययेनेति ॥ तत्र हेतु- माह-उभयत इति ॥ अयँ भावः-‘उभादुदात्तो नित्यम्' इत्यनेन '