वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 79, कुल 835 में से
संदर्भ में पढ़ेंग्रहणं नास्ति । सुप्तिङन्तमिति ज्ञापकात् । तथापीह तदन्तग्रहणम् केवलयोः संज्ञायाः प्रयोजनाभावात् ॥ अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावद्विबहुविषये निर्द्धारणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा । त्व त्व इति द्वावप्यदन्तावन्यपर्यायौ । एक उदात्तोऽपरोऽनुदात्त इत्येके । एकस्तान्त इत्यपरे ॥ नेम इत्यर्धे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । यथासंख्यमनुदेशः समानामिति ज्ञापकात् । अन्तरं बहिर्योगेति गणसूत्रेऽपुरीति वक्तव्यम् * ॥ अन्तरायां पुरि ॥ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । १।१।३४ ॥ एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठा- त्सर्वत्र या प्राप्ता सा जसि^A वा स्यात् ॥ पूर्वे, पूर्वाः । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् ? दक्षिणा गाथकाः । कुशला इत्यर्थः ॥ असंज्ञायां किम् ? उत्तराः कुरवः ॥ स्वमज्ञातिधनाख्यायाम् । १।१।३५ ॥ ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि^B वा स्यात् ॥ स्वे । स्वाः । आत्मीया इत्यर्थः । आत्मान इति वा । ज्ञातिधनवाचिनस्तु स्वाः ज्ञातयोऽर्था वा ॥ अन्तरं बहिर्योगोपसंव्यानयोः । १।१।३६ ॥ बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि^C वा स्यात् ॥ अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥ पूर्वादिभ्यो नवभ्यो वा । ७।१।१६ ॥ एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः ॥ पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादीनामपि । शेषं सर्ववत् ॥ एकशब्दः संख्यायां नित्यैकवचनान्तः ॥ न बहुव्रीहौ । १।१।२९ ॥ बहुव्रीहौ चिकीर्षिते सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । १ 'सुप्तिङ् पदम्' इति न्यासेऽपि 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इति परिभाषया तदन्तग्रहणे सिद्धे व्यर्थं सद् अन्तग्रहणम् 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' इति परिभाषां ज्ञापयति ॥ २ प्रयोजनाभावादिति । 'न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः' इत्युक्तेरिति भावः ॥ ३ 'निर्देशरूपाद्' इति भावः । सर्वनामसंज्ञायां हि 'सर्वेषाम्' इति निर्देशेन भाव्यमिति भावः ॥ ४ स्वस्य पूर्वादिशब्दस्याभिधेयेन अर्थेनापेक्ष्यमाणस्यावधेर्नियमः । नियमेन अवधिसापेक्षे ऽर्थे वर्तमानतेत्यर्थः ॥ व्यव- स्थाऽसंज्ञात्वाङ्गीकारे च शिष्टप्रयोगा एव प्रमाणमिति तत्त्वम्