वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 80, कुल 835 में से
संदर्भ में पढ़ेंअन्यथा लौकिके विग्रहवाक्य इव तत्राप्यकच् प्रवर्तेत । स च समासेऽपि श्रूयेत । अतिक्रान्तो भवन्तमतिभवकानितिवत् । भाष्यकारस्तु त्वत्कपितृको मकपितृक इति रूपे इष्टापत्तिं कृत्वैत- त्सूत्रं प्रत्याचख्यौ ॥ यथोत्तरं मुनीनां प्रामाण्यम् ॥ संज्ञोपसर्जनीभूतास्तु न सर्वादयः । महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ॥ तृतीयासमासे ॥ १।१।३० ॥ अत्र सर्वनामतान स्यात् ॥ मासपूर्वाय । तृतीयासमासार्थवाक्येऽपि न । मासेन पूर्वाय ॥ द्वन्द्वे च । १।१।३१ ॥ द्वन्द्वे उक्ता संज्ञा न ॥ वर्णाश्रमेतराणाम् ॥ समुदायस्यायं निषेधो न त्ववयवानाम् T । नचैवं *तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥ विभाषा जसि । १।१।३२ ॥ जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् ॥ वर्णाश्रमेतरे । वर्णाश्र- मेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । १।१।३३ ॥ एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः ॥ प्रथमे । प्रथमाः । शेषं रामवत् ॥ तयः प्रत्ययः । ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् ॥ नेमे । नेमाः । शेषं सर्ववत् ॥ विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् * ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः ॥ अर्थवद्ग्रहणेनेह पटुजातीयाय ॥ निर्जरः ॥ जराया जरसन्यतरस्याम् । ७।२।१०१ ॥ जराशब्दस्य जरस् वा स्यादाजादौ विभक्तौ ॥ पदाङ्गाधिकारे तस्य च तदन्तस्य च * । अनेकाल्त्वात्सर्वादेशे प्राप्ते—निर्दिश्यमानस्या- देशा भवन्ति । एकदेशविकृतस्यानन्यत्वात् जराशब्दस्य जरस् । निर्जरसौ । निर्जरसः ॥ इनादीन् बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः । पक्षे हलादौ च रामवत् ॥
१ जातसंस्कारबाधायोगादिति भावः ॥ २ तदुक्तं भाष्यकृता—‘अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गं मुक्त- संशयम्’ इति ॥ ३ ‘ध्विन्विकृण्व्योर च’ इति सूत्रे लोपपदमकृत्वा अकारविधानं लोपस्य स्थानिवद्भावेन गुणवारकं विदधता पाणिनिनापि ध्वनितमेतदिति भावः ॥ ४ सर्वनामसंज्ञानुगुणानां संज्ञोपसर्जनभिन्नानामि- त्यर्थः ॥ ५ संज्ञोपसर्जनीभूतानाम् ॥ सर्वनामसंज्ञाकार्यम् उत्तरादित्यदादिगणकार्यं चेत्यर्थः ॥ ६ ‘न बहुव्रीहौ’ इत्यादिप्रकरणविहित इत्यर्थः ॥ T. प्रथमार्थे सप्तमीस्वीकारादिति शेषः ॥ * ‘पदाङ्गाधिकारे तस्य तदन्तस्य च’ इति वक्ष्यमाणत्वादित्यर्थः ॥ ७ ‘जसि’ इति सप्तमी षष्ठ्यर्थे इत्यभिप्रेत्य ‘जसः कार्यं प्रति विभाषा अकज्डिङ्ग न भवति’ इति भाष्यसूचितमर्थं श्रुतसप्तम्यापि साधयति—जसाधारमिति ॥ ८ अत्र जातीयप्रत्ययोऽर्थवान् न तु तदेकदेशभूतः—‘तीय’ इति ॥ ९—‘अष्टन आ’ इत्यतोऽनुवर्तते । तत्फलम्—जराया इदं जारमित्यादौ न जरस् ॥ १० ‘येन विधिरुतदन्तस्य’ ‘व्यपदेशिवदेकस्मिन्’ इत्येत- त्फलितमिति भावः ॥ ११ सूत्रे स्थानषष्ठीप्रकृतित्वेनोच्चार्यमाणत्वमेव निर्दिश्यमानत्वम् । ‘षष्ठी स्थानेयोगा’ इत्यस्यैवार्थभूतेयमिति भावः ॥ १२ ‘प्राग्दीव्यतोऽण्’ इत्यत्र दीव्यतिशब्दैकदेशदीव्यच्छब्दानुकरणनिर्देशेन ‘एकदेशविकृतमनन्यवत्’ इति लौकिकन्यायाश्रयेण स्थानिवत्सूत्रभाष्यस्थ ‘एकदेशविकृतेषूपसंख्यानम्’ इति वार्तिकस्य गतार्थताया भाष्यकृतोक्तत्वेन लौकिकवार्तिकयोर्विशेषाभाव इति भावः ॥ १३ पक्षे इति जरसा- देशाभावपक्षे इत्यर्थः ॥ १४ ‘अचि र ऋतः’ इत्यतोऽनुवर्तमानस्य ‘अचि’ इत्यस्य फलमिदमिति भावः ॥