वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 84, कुल 835 में से
संदर्भ में पढ़ेंङसिङसोरत उत्स्यात् ॥ सख्युः ॥ औत् ।७।३।११८ ॥ इदुद्भ्यां परस्य ङेरौत्स्यात् ॥ उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् ॥ शोभनः सखा-सुसखा । सुसखायौ । सुसखायः । अनङ्णिद्वद्भावयोराङ्गत्वान्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावादस- खीति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यादित्युत्त्वं न । सुसखेः । सुसख्यौ इत्यादि । एवमतिशयितः सखा-अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि ॥ गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते ॥ सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहाङ्- णित्त्वे न भवतः । गोस्त्रियोरिति ह्र