वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 90, कुल 835 में से
संदर्भ में पढ़ेंह्रस्वादिति संबुद्धिलोपः—हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः—स्त्रीत्वान्नत्वभावः । आङि चापः ।७।३।१०५ ॥ आङि ओसि च परे आवन्तस्याङ्गस्य एकारः स्यात् ॥ रमया । रमाभ्याम् । रमाभिः ॥ याडापः ।७।३।११३ ॥ आपः परस्य ङिद्वचनस्य याडा- गमः स्यात् ॥ वृद्धिरेचि—रमायै । सवर्णदीर्घः—रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु ॥ एवं दुर्गादयः ॥ सर्वनाम्नः स्याड्ढ्रस्वश्च ।७।३।११४ ॥ आवन्तात्स- र्वनाम्नः परस्य^१ ङितः स्याट् स्यादापश्च ह्रस्वः ॥ याटोऽपवादः॥ सर्वस्यै । सर्वस्याः २ । एका- देशस्य पूर्वान्तत्वेन ग्रहणादामि सर्वनाम्न इति सुट्^२ सर्वसाम् । सर्वस्याम् । सर्वयोः । सर्वासु ॥ एवं विश्वादय आवन्ताः ॥ विभाषा दिक्समासे बहुव्रीहौ ।१।१।२८ ॥ अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दिङ्नामान्यन्तराले इति प्रतिपदोक्तस्य^३ दिक्समासस्य ग्रहणान्नेह—योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम्^४ । अन्तरस्यै शालायै