भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 92, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 92

अजन्तस्त्रीलिङ्गप्रकरणम् । ( ४३ )

वादः ॥ तिस्रः २ । आमि-नुमचिरेति नुट् ॥ न तिसृचतसृ ।६।४।४ ॥ एतयोर्नामि दीर्घो न स्यात् ॥ तिसृणाम् । तिसृषु ॥ स्त्रियामिति त्रिचतुरोर्विशेषणान्नेह<sup></sup>-प्रियास्त्र्यस्त्राणि वा यस्याः सा प्रियत्रिः मतिवत् । आमि तु प्रियत्रयाणामिति विशेषः ॥ प्रियास्तिस्रो यस्य स इति विग्रहे तु<sup></sup> प्रियतिस्रा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि ॥ प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । स्व<sup></sup>मोर्लुका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेशः । न लुमतेति निषेध- स्यानित्यत्वात्पक्षे प्रियतिसृ । रादेशात्पूर्वविप्रतिषेधेन नुम् । प्रियतिसृ<sup></sup>णी । प्रियतिसृणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पतापर्यायेण नुम्रभावौ-प्रियतिस्रा । प्रियतिसृणा इत्यादि ॥ द्वेरत्वे स<sup></sup>त्याप् ।