वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 93, कुल 835 में से
संदर्भ में पढ़ेंजसि च-अतिस्त्रयः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रयः ॥ वामशसोः-अतिस्त्रि- यम् । अतिस्त्रिम् । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा ॥ वेर्डिति-अतिस्त्रये । अतिस्त्रेः २ । अतिस्त्रियोः २ । अतिस्त्रीणाम् ॥ अच्च घेः-अतिस्त्रौ । ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने॥ क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । ङेप्रभृता- वजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रये । अतिस्त्रिणः २ । अतिस्त्रेः २ । अति- स्त्रियोः २ । अतिस्त्रियोरित्यादि ॥ स्त्रियां तु प्रायेण पुंवत् । शसि-अतिस्त्रीः । अतिस्त्रिया ॥ ङिति ह्रस्वश्चेति ह्रस्वान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयडुवङ्स्थानावित्यस्यैव पर्युदासः तत्संबद्धस्यैवानुवृत्तेः । दीर्घस्यैवायं निषेधो न तु ह्रस्वस्य ॥ अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः २ । अतिस्त्रेः २ । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ ॥ श्रीः । श्रियौ । श्रियः ॥ नेयङुवङ्- स्थानावस्त्री ।१।४।४ ॥ * इयडुवङोः स्थितिर्ययोस्ताविवर्णोद्वर्णौ नदीसंज्ञौ न स्तो न तु स्त्री॥ हे श्रीः । श्रिये । श्रियै । श्रियाः । श्रियः ॥ वाऽमि ।१।४।५ ॥ इयडुवङ्स्थानौ ह्याख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री ॥ श्रीणाम् । श्रियाम् । श्रियि । श्रियाम् । प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीका- रात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यम् प्रध्य इति विशेषः ॥ सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे पुंवत् ॥ सुष्ठु धीरिति विग्रहे तु श्रीवदेव ॥ ग्रामणीः पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः ॥ एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् ॥ धेनुर्मतिवत् ॥ स्त्रियां च ।७।१।९६ ॥ स्त्रीवाची क्रोष्टुशब्द- १ अयं श्लोको यदि ‘गुणनाभावौत्व-’ इति श्लोकतः प्रागेव पठ्येत तर्हि वरतरं स्यात् ॥ २ ‘प्राग्वत् पुंवत्’ ॥ ३ स्त्रियां ‘प्रधानायाम्’ श्रियमधिक्रान्ता स्त्री इति विग्रहे इति भावः ॥ ४ तत्संबद्धस्येति ‘इयडुवङ्स्थानौ इत्येतत्संबद्धस्येत्यर्थः ॥ ‘सहचरितासहचरितयोः’ इति ‘एकयोग’ इति वा परिभाषयेति केचित् ॥ ५ दीर्घस्येति ॥ अयं भावः–‘ङिति ह्रस्वश्च’ इत्यत्र ‘ङिति’ इति योगं विभज्य तत्र ‘इयडुवङ्स्थानौ’ ‘अस्त्री’ ‘वा’ इति अनुवर्तते । तथा च–तत्र ‘यू स्त्र्याख्यौ नदी’ इति ‘यू’ इत्यनेन दीर्घयोरेव ग्रहणस्य भाष्ये निश्चितत्वात् इयडुवङ्स्थानौ ह्याख्यौ दीर्घेकारोकारौ वा नदीसंज्ञौ स्तो ङिति’ इत्यर्थेन ‘अस्त्री’ इत्यत्रैतावत्पर्यन्तं ह्रस्वस्याग्रहणात् ॥ ‘ह्रस्वश्च’ इत्यत्र तु ‘अस्त्री’ इत्येतन्नैव विशेषणतया व्यावर्तकम् ह्रस्वस्य सदैव स्त्रीशब्दभिन्नत्वात् । अस्त्री इत्यत्र ‘अस्त्री ई’ इति प्रश्लिष्य दीर्घेकारान्तस्त्रीशब्द स्यैव पर्युदासकोटौ ग्रहणादिति तत्त्वम् ॥ ‘दीर्घस्यैवायम्’ इति पाठफलितमाह–नत्विति ॥ ६ कृदिकाराद् क्तिनः’ इति ङीषि तु नदीवत् ‘श्री श्र्यौ श्र्यः श्रीम्’ इत्येव रूपाणि भवन्ति अत एव ‘तां दृष्ट्वा श्रीमिवा- यतीम्’ इति मुकुटेन प्रयोगो दर्शितः । ‘कथामिव श्रीमपि कुत्सयन्तः’ इति शंकरभगवत्पादैश्च प्रयुक्तमिति बोध्यम् ॥ * ‘बाधकाबाधिता’ इत्यादिः ॥ तेन ‘प्रध्यै पुनर्भ्वै’ इत्यादौ नदीसंज्ञा भवत्येवेति सारम्॥ ७ प्रधीशब्दस्येति । ‘प्रकृष्टं ध्यायति’ इति प्रकृष्टा धीर्यस्येति वा विग्रहे इत्यादिः ॥ ८ पुंवदिति । ध्यानकर्तृत्वस्य प्रकृष्टधीसंबन्धित्वस्य च स्त्रियां पुंसि च संभवादिति भावः ॥ ९ मतद्वयेपीति शेषः ॥ १० त्रिष्वपि विग्रहेष्विति बोध्यम् ॥ ११ उभयमतेपीति भावः ॥