वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 137, कुल 192 में से
संदर्भ में पढ़ें१८८ वाक्यपदीयम् घटत्व आदि जातियों के आश्रय अनित्य घट आदि पदों से नित्य घटत्व जाति की अभिव्यक्ति होती है। इसलिए यह नहीं कहा जा सकता कि 'अभिव्यक्ति अनित्य की ही होती है' ॥९५॥ ननु समानदेशस्था एव घटादयः समानदेशस्थैर्दीपादिभिरभिव्यज्यन्ते न गृहा- न्तरस्था गृहान्तरस्थैरिति दर्शनात्। समानदेशस्थयोरेव व्यङ्ग्यव्यञ्जकभाव एष्टव्य इति ताल्वोष्ठादि व्यापारजन्यैः शब्दजशब्दन्यायेन श्रोत्रदेशस्थितैर्ध्वनिभिः कथमा- न्तरस्य स्फोटस्याभिव्यङ्ग्यता तदभावे चागतं शब्दानित्यत्वमत आह— यद्यपि जैसे समानदेशस्थ दीप समान देशस्थ घट का प्रकाशक है किन्तु गृहान्तरस्थ दीप गृहान्तरस्थ घटका प्रकाशक नहीं होता। वैसे ओष्ठ तालु आदि स्थानों में उत्पन्न और शब्दजशब्द न्याय से श्रोत्र देश तक आई हुई ध्वनि आन्तरस्फोट को व्यक्त नहीं कर सकती क्योंकि दोनों का देश समान नहीं है। तथापि— देशादिभिश्च सम्बन्धो दृष्टः कायवतामिह । देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः ॥ ९६ ॥ इह लोके कायवतां मूर्तानां परिच्छिन्नपरिमाणवतां घटादीनां देशादिभिः सम्ब- न्धः अयमेतद्देशस्थः अयमेतद्देशस्थः इत्येवंरूपो दृष्टः नामूर्तस्य शब्दस्य तस्य व्यापक- त्वेन सर्वदेशस्थत्वेन देशदेशिव्यवहाराभावात्। एवं च शब्दो नाभिव्यङ्ग्यः व्यञ्जकभिन्न- देशस्थत्वादिति स्वरूपासिद्धो हेतुरिति भावः। तुष्यतु दुर्जनन्यायेन ध्वनिशब्दयोः देश- भेदव्यवहारमभ्युपेत्याह—देशभेदविकल्पेऽपीति। ध्वनिशब्दयोः देशभेदवि- कल्पेऽपि देशयोः श्रोत्रहृदयाकाशरूपयोः औपाधिकभेदवत्त्वेऽपि वस्तुत आकाशस्य एकत्वेन न देशभेदः। अथ च औपाधिको भेद आश्रीयते तर्हि सा भेदप्रतीतिर्वस्तुशून्यतया विकल्पः तस्मिन् आश्रितेऽपि न भेदः नाधिकरणदेशभेदः ध्वनेः श्रोत्रद्वारा हृदयदेश- गमनेन¹ उभयोरेकदेशस्थत्वादिति भावः॥ तदुक्तं भाष्ये 'श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलितः आकाशदेशः शब्दः एकं च पुनराकाशम्' इति। कायवताम- पीति पाठे कायवतां परिच्छिन्नपरिमाणवतामपि सूर्यादीनामेकदेशस्थानामनेकदेशे प्रतिपात्रं प्रतिबिम्बानामभिव्यक्तिर्दृश्यते। यदाहुः—'एकेन बिम्बितेन प्रतिपात्रं पृथक् पृथक्। भिन्नानि प्रतिबिम्बानि जायन्ते युगपन्नृणाम्' इति किं पुनर्ब्रूमः शब्दस्य सर्वगतत्वेन ध्वनिदेशस्थत्वादिति भावः॥ ९६॥ इस श्लोक में मूर्त या देहवालों (घट आदिकों के ही देश-आदि सम्बन्ध होते हैं, अर्थात् ऊपर लिखा नियम मूर्तों के लिये है) अमूर्त ध्वनि और शब्द तो भिन्न भिन्न (जैसे ध्वनि का १. तदुक्तं परमलघुमञ्जूषायाम् 'अत्रेदं बोध्यम्—केनचिदुच्चार्यमाणे तु वैखरीनादः प्रयुक्तः स केनचिच्छ्रोत्रेन्द्रियेण गृहीतः। स नाद इन्द्रियद्वारा बुद्धिहृद्गतः (बुद्ध्यन्तःकरणेन हृदयदेशं गतः) सन्नयं बोधकं शब्दं स्वनिरूपकत्वादिना व्यञ्जयति तस्मादयं बोधः। स्फुटत्यर्थोऽस्मादिति व्युत्प- त्त्या स्फोटः। उच्चारयितुस्तु युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते। तत्र वैखरीनादो वह्नेः फूत्कारवन्मध्यमनादप्रोत्साहकः मध्यमनादः स्फोटं व्यञ्जयतीति शीघ्रमेव ततोऽर्थबोधः। परस्य विलम्बेन मुखबधिरत्वात्' इति।