वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 142, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ११३ इदानीं कार्यपक्षे नादस्फोटयोः स्वरूपमाह— जो लोग शब्द को अनित्य मानते हैं उनके मत में नाद और स्फोटका स्वरूप है— यः संयोगविभागाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ॥ १०२ ॥ करणैः कण्ठताल्वादिभिः संयोगविभागाभ्यां वायुसंयोगविभागाभ्यां यः शब्दः प्रथमम् उपजन्यते स स्फोटः बोधकः उत्तरोत्तरशब्दानां कारणं च ये च श- ब्दजाः स्फोटाख्यात् शब्दाज्जातास्ते ध्वनयः अन्यैः स्फोटकार्यत्ववादिभिः आचार्यैः उदाहृताः कथिताः ॥ नित्यत्वपक्षे तु संयोगविभागजध्वनिव्यङ्ग्यः संयोगविभागज- ध्वनिसंभूतनादाभिव्यङ्ग्यो¹ वा स्फोटः स्फोटरूपानुग्राहकाश्च यथोत्तरमपचीयमाना- भिव्यक्तिसमर्थाः द्रुतादिवृत्तिभेदव्यवस्थाहतवउपचयात्मका ध्वनय इति ॥ स्फोट को अनित्य मानने वाले तार्किक आचार्यों ने कहा है कि कण्ठतालु आदि के संयोग और विभाग के द्वारा जो उत्पन्न होता है वह स्फोट (वाचक शब्द) है और जो शब्दज शब्द हैं वे ध्वनियाँ हैं। वैशेषिकाः संयोगाद्विभागाच्छब्दाच्च शब्दोत्पत्तिरित्याहुः । तत्र यथा प्रथमं वातेनै- का वीचिरुत्पद्यते अनन्तरं तयैव तरङ्गान्तरं तेनाप्यन्यदिति पूर्वपूर्वतरङ्गेभ्य उत्तरोत्तर- तरङ्गाणामुत्पत्तिस्तथा भेरीदण्डसंयोगाद् वेणुदलविभागाद्वा शब्द आकाशदेशे निष्पद्यते स चायमसमवायिकारणतया शब्दान्तरमारभते तच्च शब्दान्तरमिति परम्परया श्रोत्रपथ- मवतीर्णो गृह्यते । 'भेरीशब्दो मया श्रुतः' इति धीस्तु भ्रम एव । अयं वीचीतरङ्ग- न्यायेन शब्दोत्पत्तिपक्षः ॥ इदमत्रावधेयम्—वैयाकरणा यं प्राकृतध्वनिरिति व्यवहरन्ति तमेव तार्किकाः वाचकशब्दं मन्यन्ते यं च ते वैकृतध्वनिरिति व्यवहरन्ति तं च तार्किकाः ध्वनिरिति व्यवहरन्तीति ॥ १०२ ॥ भेद केवल इतना है कि वैयाकरण जिसे प्राकृत-ध्वनि कहते हैं तार्किक उसे ही वाचक शब्द (स्फोट) मानते हैं और जिन्हें वैयाकरण वैकृतध्वनि कहते हैं। तार्किक उसे ध्वनि कहते हैं ॥ १०२ ॥ संयोगजो ध्वनिः स्फोटः स्फोटजास्तु ध्वनय इति पूर्वोक्तपक्षे प्रक्रियामाह— इसकी प्रक्रिया इस प्रकार है— अल्पे महति वा शब्दे स्फोटकालो न भिद्यते । परस्तु शब्दसन्तानः प्रचयापचयात्मकः ॥ १०३ ॥ अल्पे महति वा शब्दे वैकृतध्वनौ जाते स्फोटकालो ह्रस्वाकारादिकालः न भिद्यते शब्दस्य अमूर्तत्वेन अल्पत्वमहत्त्वादिपरिमाणाद्योगात् किन्तु मुख्याल्पत्व- महत्त्वानां सूचीपर्वतादीनां यथा सूची अल्पदेशं पर्वतश्चाधिकदेशं व्याप्नोति तथा शब्दो- १. नादपदेन वर्णः । १५ वा०