वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 141, कुल 192 में से
संदर्भ में पढ़ें११२ वाक्यपदीयम् विरुद्धपरिमाणेषु वज्रादर्शजलादिषु । पर्वतादिसरूपाणां भावानां नास्ति सम्भवः ॥ १०० ॥ पर्वतपरिमाणापेक्षया विरुद्धं भिन्नमल्पं परिमाणं येषां तेषु विरुद्धपरि- माणेषु वज्रादर्शजलादिषु लघुपरिमाणेषु पर्वतादिसरूपाणां महापरिमाणां भावानां पर्वतादीनां चन्द्रादीनां च सम्भवः उत्पत्तिसम्भवः नास्ति । अयं भावः यन्महापरिमाणानां पर्वतहस्त्यादीनां लघुपरिमाणेषु दर्पणादिषु समावेशाभावेन तदारम्भकाणां तदवयवानां भानाभावेन तत्र नोत्पत्तिसम्भवः किन्तु दर्पणादिसम्बन्धे तेषामेव पर्वतादीनां तथावभासो जायते इति न दृष्टान्तासंगतिः ॥ १०० ॥ पर्वत के परिमाण की अपेक्षा अल्पपरिमाण वाले वज्र और दर्पण आदि छोटी वस्तुओं में महापरिणाम वाले पर्वत और चन्द्र आदि की उत्पत्ति नहीं हो सकती । इसलिए मानना पड़ेगा कि बड़े परिमाण वाले पर्वत आदि अल्पपरिमाण वाले दर्पण में समाविष्ट नहीं हो सकते फिर भी उनकी दर्पण में उत्पत्ति नहीं होती किन्तु बड़े परिमाण वाले पर्वत ही दर्पण में अभिव्यक्त होते हैं ॥ १०० ॥ एवं व्यञ्जकध्वनिकालकृतं स्फोटे कालभेदमुपपाद्योपसंहरति— तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु । वृत्तिकालः स्वकालश्च नादभेदाद्विभाव्यते ॥ १०१ ॥ तस्मात् व्यङ्ग्ये व्यञ्जकधर्मानुगमदर्शनात् अभिन्नकालेषु स्वतः कालभेद- रहितेषु वर्णवाक्यपदादिषु तदाख्यस्फोटेषु नादभेदात् प्राकृतवैकृतध्वनिभेदात् वृत्तिकालः द्रुतादिवृत्तिकालः स्वकालः स्वीयस्य-स्वाभिव्यञ्जकस्य प्राकृतध्वने- र्मात्रादिकालश्च विभाव्यते प्रतीयते न तु तत्र वास्तवतादृशकालसम्बन्धोऽस्तीति भावः ॥ इयांस्तु विशेषः यत् प्राकृतः स्फोटेऽध्यस्यमानः ह्रस्वदीर्घप्लुतभेदव्यवहा- रकारणं वैकृतस्तु शब्देऽवधारिते भवन् गृहीतभेदत्वात् नाध्यारोपनिमित्तं किन्तु शब्दाद्द्रुतादिकालव्यवस्थानिमित्तम् तावत्कालं स्फोटोपलब्धिवारणमिति यावत् । तेन च न स्फोटभेद इति ह्रस्वत्वदीर्घत्वादिकं च ध्वनिधर्म एवेति स्फुटमुक्तं श्लोकवार्त्तिके— ‘स्वतॊ ह्रस्वादिभेदस्तु नित्यवादे विरुध्यते । सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम् ॥ तस्मादुच्चारणं तस्य मात्रं कालं प्रतीयताम् । द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम् ॥’ इति ॥ १०१ ॥ इसलिए व्यङ्ग्य में व्यञ्जक धर्मों को देखकर यह मानना पड़ता है कि कालभेद रहित वर्ण, पद और वाक्य स्फोटों में नाद के (प्राकृत और वैकृतध्वनि के) भेद से द्रुतादि वृत्तियों का तथा वर्ण आदि का अभिव्यञ्जक प्राकृति ध्वनि का काल प्रतीत होता है । ~ ३