भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 146, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 146

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ११७ भवति इति तदर्थः। शब्दी-भवतीत्युक्त्या शब्दस्य वायुपरिणामत्वं स्फुटीकृतम्। ततः 'संघातादीन् वाक्' इति सूत्रेण शब्दीभूतस्य वायोः वर्णभावापत्तिरुक्ता। अयमर्थः- यो वायुः वेणुशङ्खादिभिरुपहितः शब्दीभूतः स संघातः—पुरुषप्रयत्नः बाह्याभ्यन्तर- लक्षणः स आदिर्येषां स्थानादीनां ते तान् संघातादीन् प्राप्य वाक् वर्णो भवतीति। शब्दार्थप्रत्ययानामिति [ ३ पा० १७ सू० ] सूत्रे 'श्रोत्रं च ध्वनिपरिणाममात्र- विषयम्' इति व्यासभाष्यप्रतीकमादाय 'श्रोत्रं पुनर्वैश्वानरस्य वागिन्द्रियाभि- घातिनो यः परिणतिभेदो वर्णात्मा तेनाकारेण परिणतं तन्मात्रविषयम्' इति श्री वाचस्पतिमिश्राः। तस्मिन्नेव सूत्रे 'ध्वनिर्नाम वागिन्द्रियादिप्रविहितस्योदान- वायोः परिणतिभेदः तदभिघातात्तद्व