भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 148, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 148

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ११६ प्रयत्नेन अर्थबोधनेच्छया समुपजातेन प्रयत्नेन शमीरिताः प्रेरिता शब्दा- रूपाः शब्दपरिणामस्वाच्छन्द द्रव्यव्याताः शब्दतन्मात्रारूपा वा परमाणवः स्वश- क्तौ घटशब्दाद्याकारपरिणमनशक्तौ व्यज्यमानायां सत्याम् अभ्राणीव वर्षाकाले मेघपरमाणव इव प्रचीयन्ते संहता भवन्ति इत्यर्थः । प्रयोक्तृयत्नेन संह्रियमाणाः शब्दत्वापत्तिशक्तियुक्ताः परमाणवः शब्दभावेन परिणमन्त इति न सर्वदा शब्दभावेन परिणाम इति भावः ॥ किन्तु जब किसी अर्थ को बताने की इच्छा से किये गए प्रयत्न द्वारा शब्द या शब्दतन्मा- त्रारूपी परमाणुओं को प्रेरणा मिलती है। तब उनकी शक्ति उन-उन शब्दों के रूप में व्यक्त होती है और वे ही परमाणु जैसे वर्षाकाल में मेघ के परमाणु आकाश में व्याप्त हो जाते हैं। वैसे शब्द के रूप में परिणत हो जाया करते हैं। इसी लिए नित्य अणुओं का सर्वदा शब्दरूप में परिणाम नहीं होता ॥ १११ ॥ शब्दस्याणुपरिणामता च-शब्दः पौद्गलिकः अस्मदादिप्रत्यक्षत्वे सति अचेतनत्वे च सति क्रियावत्त्वात् बाणादिवदित्यनुमानेन शब्दस्याकाशगुणत्वखण्डनप्रकरणे प्रमेय- कमलमार्त्तण्डे निरूपिता । मनसः आत्मनश्चापौद्गलिकत्वात् तत्र व्यभिचारवार- णाय क्रमेण सत्यन्तद्वयम् । सामान्ये व्यभिचारवारणाय विशेष्यम् । न च शब्दे क्रियावत्त्वमसिद्धम्, शब्दस्य निष्क्रियत्वे मस्य श्रोत्रेण ग्रहणं न स्यादसम्बन्धात् । न च श्रोत्रमेव शब्ददेशं गच्छतीति साम्प्रतं धर्माधर्माभ्यां संस्कृतकर्णशष्कुल्यवच्छिन्नभो- लक्षणश्रोत्रस्य निष्क्रियत्वात् शब्दोत्पत्तिदेशे श्रोत्रस्य गतिप्रतीत्यभावाच्च । किं च शब्दः पौद्गलिकः अस्मदादिप्रत्यक्षत्वे सति स्पर्शवत्त्वादित्यनुमानेन शब्दस्य पौद्गलि- कत्वसिद्धि । न च शब्दे स्पर्शवत्त्वमसिद्धमिति वाच्यम् शब्दः स्पर्शवान् स्वसंबद्धा- र्थान्तराभिधानहेतुत्वाद् गुरुत्ववत् इत्यनुमानेन तत्सिद्धेः । सुप्रतीतो हि कांस्यपात्र्या- दिष्वन्यभिसम्बन्धेन श्रोत्राद्यभिघातन्तरकार्यस्य बाधिर्यादेः प्रतीतेः । स चास्यास्पर्श- वत्वे न स्यात् नह्यस्पर्शवता काष्ठादिनाऽभिसम्बन्धेऽसौ दृष्टः । न च शब्दसहचरितेन वायुना तदभिघात इति वाच्यम् शब्दान्वयव्यतिरेकानुविधायित्वात्तस्य । न च शब्दो नपौद्गलिकः अस्मदाद्यनुपलभ्यमानरूपवत्त्वाद्यन्नैवं तदस्मदाद्युपलभ्यमान- रूपवत् यथा घट इत्यनुमानेन सप्रतिक्षप इति वाच्यम् द्वयणुकादिना पौद्गलिकेन व्यभिचारेण व्यतिरेकव्याप्तिग्रहासम्भवादिति ॥ १११ ॥ महाभाष्यदृष्ट्या ज्ञानस्य शब्दभावापत्तिमाह— महाभाष्यकार पतञ्जलिका मत है कि— अथायमान्तरो ज्ञाता सूक्ष्मवागात्मना स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ ११२ ॥ आन्तरः ज्ञाता बुद्धिधिष्ठितमन्तःकरणं सूक्ष्मवागात्मना सूक्ष्मशब्दाकारता- क्तिमात्रेण स्थितः स एव जीवो विवरप्रवृत्तिरितिश्रुत्या। वैयाकरणमते वाच एवात्म-

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक) · पृष्ठ 148, कुल 192 में से · BharatKosha