वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 160, कुल 192 में से
संदर्भ में पढ़ेंत्रिविधः—वैकारिकः तैजसः भूतादिश्चेति । वैकारिकादहङ्काराद्-दिग्वाताऽर्कादयो देवाः । तैजसादहङ्कारात्—कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि मनश्च । भूतादिकादहङ्कारा- त्पञ्चभूतानि जातानि । पञ्चभूतात्मकं सर्वं चराचरमिदं जगत् । अचरा बहुधा भिन्ना गिरिवृक्षादिभेदतः ॥ इति । तदयं निष्कर्षः—वाक्यपदीयकारा व्याकरणागममनुसृत्य नित्यं शब्दब्रह्म शब्दभावेन विवृत्तं सदर्थभावेन विवर्तते इति अनादिनिधनमिति कारिकया यद्ब्रह्मः तस्यैव सर्वजगदुपादानत्वं मन्यन्ते । नागोजीभट्टास्तु-तन्त्रशास्त्रमनुसृत्य शब्दब्रह्म- णोऽनित्यत्वमास्थाय अर्थसृष्टौ तज्जन्मानुपलम्भाच्चित्यत्वमिति वदन्तः अनादिनिधन- मिति वाक्यपदीयकारोक्तिमन्यथयन्ति । तदिदमन्यथाकरणम् 'इत्याहुरपरे परं ब्रह्म यदनादि तथाऽक्षयम् । तदक्षरं शब्दरूपं सा पश्यन्ती परा हि वाक् ॥' इति शिव- दृष्टिग्रन्थेन 'नाशोत्पादसमालीढं शब्दब्रह्मामयं च तत् यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते ॥' इति शान्तरक्षितकृततत्त्वसंग्रहेण प्रमेयप्रकरणेऽपवर्गनिरूपणप्रस्तावे 'अनादिनिधनम्' इतिकारिकामुद्धृत्य 'तत्रानादिनिधनपदनिवेदिता पूर्वापरान्तर- हिता वस्तुसत्ता नित्यत्वं चे'ति न्यायमञ्जरीग्रन्थेन च विरुद्धम् । तैस्तैरत्यन्तप्राचीनै- र्ग्रन्थकारैः अनादिनिधनमिति पदस्य कूटस्थनित्यत्वाभिप्रायेणैवानूदितत्वात् । न च तन्त्रागमानुरोधेन अनादिनिधनमिति पदस्य नागोजीभट्टोक्तं व्याख्यानमेव रम्यमिति वाच्यम् 'शब्दब्रह्मेति शब्दार्थं शब्दमित्यपरे जगुः । न हि तेषां तयोः सिद्धिर्जडत्वा- दुभयोरपि ॥ चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतिः ।' इत्यनेन तेषां वादिनां तयोः शब्दार्थयोः सिद्धिः शब्दब्रह्मत्वमिदं नोभयोर्जडत्वादित्यर्थकेन शारदातिलके तन्त्रागमानुरोधिनी वैयाकरणसिद्धान्तस्य तान्त्रिकसिद्धान्तापेक्षया भिन्नत्वावगमेन तदनुरोधेन वैयाकरणसिद्धान्तनयनस्यात्यन्तमनुचितत्वात् इति अनादिनिधनपदस्य स्वारसिकमर्थमपह्नुव्यान्यार्थकरणं नागोजीभट्टस्य तन्त्रागमश्रद्धया वा वैयाकरण- सिद्धान्तानभिज्ञतया वेति मन्तव्यम् । ततश्च शब्दब्रह्मोत्पत्तिवादस्तन्त्रागमसिद्धोऽपि न व्याकरणगमसिद्ध इति सर्वं निर्मलम् ॥ १२० ॥ ननु यदि घटादयः शब्दस्य परिणामविशेषाः स्युस्तर्हि यथा मृत्परिणामेषु घटा- दिषु मृत्स्वरूपानुगमो दृश्यते तथा शब्दस्वरूपानुगमोऽपि स्यादिति शङ्कामिष्टापत्त्या परिहर्तुं शब्दस्वरूपानुगमं प्रत्ययमात्रे दर्शयितुमाह— जैसे मिट्टी से बने हुए घट में मिट्टी की प्रतीति होती है। वैसे जितने घट पट आदि शब्द के कार्य हैं सब में शब्द रूपता भी दिखाई देनी चाहिए। इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते ॥ १२१ ॥ लोके सर्वा कर्तव्यस्य प्रकारः इतिकर्तव्यता इदमित्थं कर्तव्यमिति सर्वव्य-