भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 167, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 167

१३८ | १। २८ वाचोऽव्यतिरिक्त इति ताभिः षड्प्रबोधां षडन्यां षडवयवाम् षोढैव च तस्याः प्रतिपादनव्यापारः। सर्वाणि चैतानि रूपाणि तस्या इति ॥ १२६ ॥ यतः वागेव संज्ञा अतः— प्राणियों में जो संज्ञा है वह वाणी ही है क्योंकि— अर्थक्रियासु वाक् सर्वान्समीहयति देहिनः । तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुड्यवत् ॥ १२७ ॥ सर्वान् देहिनः अर्थक्रियासु जलाहरणादिकार्येषु वाक् समीहयति जलमा- नयेति प्रेरयति शब्दानुपग्रहे एव पदार्थादीनां समीहनं चेष्टनं भवतीति वाचैव युक्ताः प्राणिनश्चेष्टन्त इति भावः । तदुत्क्रान्तौ अयं देही व्यवहारयोग्यस्य परिच्छेद- स्य अभावात् काष्ठकुड्यवत् विसंज्ञो दृश्यते विसंज्ञ इति व्यवह्रियते ॥ १२७ ॥ क्योंकि, समस्त प्राणियों को कार्य करने के लिये वाणी ही प्रेरक है (जैसे पानी लाओ) और इसी वाणी के बन्द हो जाने पर यह देह काठ और भीत की तरह बिना चेतना का हो जाता है ॥ १२७ ॥ जाग्रद्दशायां वाग्रूपानुगममुक्त्वा स्वप्नेऽपि तमाह— जाग्रतावस्था की भाँति स्वप्नावस्था में भी वाणी का अनुगम होता है जैसे। अविभागे यथा कर्ता तया कार्ये प्रवर्तते । अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ १२८ ॥ यथा प्रविभागे जाग्रदवस्थायां तया वाचा करणभूतया कर्ता देवदत्तादिः कार्ये घटादौ प्रवर्तते तथा अविभागे स्वप्नावस्थायां सैव वागेव कार्यत्वेना- वतिष्ठते वागेव भोक्तृतया भोग्यतया भोगतया च विवर्तत इत्यर्थः ॥ तथा च श्रुतिः—'भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म चैतत्' । आह च— प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ इति । जैसे जाग्रत अवस्था में वाणी से प्रेरित होकर कर्ता कार्य करने में प्रवृत्त होता है। वैसे स्वप्नावस्था में भी वाणी ही भोक्ता, भोग्य और भोगरूप में परिणत हो जाती है ॥ १२८ ॥ एतदुक्तं भवति जाग्रदवस्थायां कर्तृकर्मकरणविभागः सम्भवति बाह्यस्य तदानीं सत्त्वात् इति सा प्रविभाग इत्युच्यते स्वप्नावस्थायां तु वाग्रूपं शब्दब्रह्मैव कर्ता कार्यं करणं च तदानीं बाह्यस्याभावात् इति सा अविभाग इत्युच्यते । यद्यपि जागरणेऽपि सैव कर्ता कार्यं करणं च तथापि प्रसिद्धत्वादेवमुक्तम् कार्यत्वेन कर्तृत्वकरणत्वे उपलक्ष्येते ॥ केचित्तु—जाग्रदवस्थायां जीवपरमात्मनोः पार्थक्यात् सा प्रविभागावस्थोच्यते ।