वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 168, कुल 192 में से
संदर्भ में पढ़ेंसंस्कृत-हिन्दी-व्याख्योपेतम् १३६ स्वप्ने तु 'यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति' इति श्रुत्या यत्र सुप्तौ पुंसः स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्नस्तेनैकीभूतः हि यतः स्वं सदात्मा- नमपीतो भवति लीनो भवति इत्यर्थः । मनः प्रचारोपाधिविशेषसम्बन्धात्क्रिया- र्थान् गृह्णँस्तद्विशेषापन्नो जीवो जागर्ति तद्वासनाविशिष्टः स्वप्नान् पश्यन् मनः शब्द- वाच्यो भवति स उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावान्न स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवतीत्युच्यते इति सा अविभागावस्थोच्यते इत्याहुः ॥ १२८॥ सर्वो हि विकारो वाच एवेति स्वमतं समर्थयते— समस्त जगत् वाणी का ही विकार है । स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा । तथैव रूढतामेति तया ह्यर्थो विधीयते ॥ १२९ ॥ स्वमात्रा स्वस्वरूपं परमात्रा परस्वरूपं यथा भेदेन अभेदेन वा श्रुत्या वाचा प्रक्रम्यते प्रख्याप्यते तथैव भेदेनाभेदेन वा सः अर्थो रूढतां प्रसिद्धिमिति हि यतः तया वाचा अर्थो विधीयते बुद्धावारोप्यते इत्यर्थः ॥ जैसे स्वस्वरूप अथवा परस्वरूप भेद या अभेद रूप में वाणी से प्रतीत होता है वैसे ही भेद अथवा अभेद रूप में वह शब्द उसी अर्थ में रूढ़ हो जाता है । क्योंकि किसी भी अर्थ का ज्ञान शब्द के द्वारा ही होता है । अयं भावः यथा राहोः शिरोऽभिन्नत्वेऽपि राहोः शिर इति यथा वा पुरुषस्य चैतन्याभिन्नत्वेऽपि पुरुषस्य चैतन्यमिति शब्देन भेदः प्रतिपाद्यते यथा च आदेशस्य स्थानिभिन्नत्वेऽपि स्थानिवत्सूत्रेणाभेदः प्रतिपाद्यते तथैव सा रूढिं प्रसिद्धिं याति । शाब्दस्यैव महिमा यदसदर्यप्रकाशकं नाम । यदाहुः खण्डनकारा.—'अत्यन्ता- सत्यपि ह्यर्थे ज्ञानं शब्दः करोति च' इति । योगसूत्रेऽप्युक्तं 'शब्दज्ञानानुपाती वस्तु- शून्यो विकल्पः' इति । शब्दज्ञानमात्रेण बुद्धावनुपतति वस्तुशून्यः बाह्यार्थ- शून्यः विकल्पः विकल्पात्मकं ज्ञानमिति तदर्थः । अत्र योगवृत्तौ नागोजीभट्टाः 'स (विकल्पः) न प्रमाणान्तर्भूतः वस्तुशून्यत्वात् नापि विपर्ययान्तर्भूतः ज्ञानस्य याथार्थ्ये सति यादृशस्तद्याथार्थ्यनिबन्धनो व्यवहारः शब्दप्रयोगरूपस्तादृशव्यवहारस्येतोऽपि दर्शनात् । विपर्ययस्तु नैवम् बाधोत्तरमिदं रजतमिति शब्दप्रत्यययोरभावात् यथा चैतन्यं पुरुषस्य स्वरूपमिति अन्यथा चितेरेव पुरुषत्वादभेदनियतसम्बन्धरूपस्य षष्ठ्यर्थस्याप्रतीत्यापत्तिः भवति च चैत्रस्य गौरिति यथार्थशब्दवदत्रापि षष्ठ्यर्थे वृत्तिः ततो विशेपणादपि बोधश्च । एवं निष्कम्पः पुरुषः, तिष्ठति बाण, इत्याद्यपि द्रष्टव्यम् । अभावस्य अधिकरणमात्रत्वेन क्रियाभावस्य गतिनिवृत्तेश्च पुरुषेण बाणेन चानतिरे- कादाधाराधेयभावानुपपत्तेः' इति ॥ १२९ ॥ लोग 'राहु का शिर, और 'पुरुष का चैतन्य' इस प्रकार व्यवहार करते हैं और 'स्थानिव-