वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 40, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्यायुतम् । अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः । जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥ ३ ॥ यस्य ब्रह्मणः अध्याहित आरोपितः कला भेदः (निमेषादिक्रियोपहितानानात्वं यस्यास्ताम् अध्याहितकलां कालशक्तिं विधात्मा एक एव परं ब्रह्माभिधानं सत्यो भावः स एव नानाविधकार्यवशत्तियाऽनन्यशक्तित्वेन व्यवह्रियते तस्य स्वात- न्त्र्यशक्तिः कालस्ताम् उपाश्रिता जन्मादयः जायतेऽस्ति, विपरिणमते, वर्द्धते, हसति, नश्यति इत्येवंरूपाः षड् विकारा भावभेदस्य योनयः कारणानि भवन्ति । औपाधिकभेदमादायैकरस्यापि कालस्य क्रमरूपतया क्रमवत्कार्यजनकत्व- मिति भावः । जिस ब्रह्मकी काल्पनिक भेदों वाली शक्ति कालशक्ति स्वतन्त्रशक्ति है (जिसमें निमेष पल- घटी आदि की कल्पना की गई है और जिस शक्तिके कारण ब्रह्म अनन्यशक्तिमान् माना जाता है।) उसीके अनुसार जन्म (जायते, अस्ति, विपरिणमते, वर्द्धते, हसति, नश्यति) आदि छः प्रकारके विकार हैं जो भावों (पदार्थों) के भेदके (क्रमिक भेदके) कारण माने जाते हैं। अयं भाव —सर्वाः कारणशक्तयः कालेन अनुज्ञाताः सद्यो जनयन्ति कार्यम्, प्रतिबद्धाः सद्यो न जनयन्ति कार्यम्, हेमन्तादिकाले प्रतिबद्धाः वसन्तादिकाले अनु- ज्ञायन्ते इति कालः स्वातन्त्र्यशक्तिः अन्यासां च कालपारतन्त्र्यम्, यथा धीवराः पक्ष्य- न्तराणां ग्रहणाय सूत्रप्रतिबद्धान् पक्षिणश्चेष्टयन्ते तथा च ते सूत्रप्रतिबन्धादस्वतन्त्रा इव भवन्ति तथेच्छायां तन्तुनाऽऽकर्षणात्। एवं कालसूत्रप्रतिबन्धात् पदार्थाः संकोच- विकासलघुत्वगुरुत्वापत्तिवसावनवरतमनुभवन्ति। 'अतश्च कालसूत्रान्तर्गतं विश्वं ग्राहकालं प्रसूयते' इति जायते इत्यवसीयते, प्रसूतमनुतिष्ठते इति अस्ति इति व्यपदिश्यते, अवस्थितस्य विकारापत्तिरिति विपरिणमते, तच्च विपरिणमन्मुहूर्त्तमपि नावतिष्ठते इति वर्धते यावदनेन वर्धितव्यं, ततोऽपचीयते मुहूर्तमप्यनवस्थानादेव ततः अव- स्थितं कृतकरणीयं विनश्यति । तदुक्तं वाक्यपदीये—( का० ३ समु० ९ ) उत्पत्तौ च स्थितौ चापि विनाशे चापि तद्वताम् । निमित्तं कालमेवाहुरिभक्तेनात्मना स्थितम् ॥ तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते । प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥ यदि न प्रतिबध्नीयात् प्रतिबन्धं नोत्सृजेत् । अवस्था व्यतिकीर्येरन् पौर्वापर्यं विना कृताः॥ विशिष्टकालसम्बन्धो वृत्तिलाभाय कल्पते । शक्तीनां सम्प्रयोगस्य हेतुत्वेनावतिष्ठते ॥ स्थितिस्तस्यानुग्रहरूपैस्तैर्धर्मैः संसर्गिभिस्ततः। प्रतिबन्धस्तिरोभावः प्रहानमिति चात्मनः॥ प्रतिबद्धाश्च यास्तेन विश्वा विश्वस्य वृत्तयः। ताः स एवानुजानाति यथा तन्तुः शकुन्तिनः॥ विशिष्टकालसम्बन्धाल्लन्धपाकासु शक्तिषु । क्रियाभिव्यज्यते नित्या प्रयोगारूढेन कर्मणा ॥ इति ॥ ३ ॥