वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 48, कुल 192 में से
संदर्भ में पढ़ेंरूपेण, ममैव दर्शनं सत्यमित्येवंरूपः प्रकृष्टो वादो येषु ते प्रवादाः अनल्पाश्चा दर्शनभेदाः, मता अभिमता इत्यर्थः। वेदके ही मन्त्रोंमें जहाँ अर्थ परस्पर विरुद्ध दिखाई पडते हैं वहाँ (भिन्न भिन्न दर्शनाचार्योने) उनमें एकको अर्थवाद (प्रशंसा करनेवाला) और दूसरेको सिद्धान्त मानकर अपनी अपनी रुचिके अनुसार एकत्ववाद या द्वैतवाद मान लिया है और अपने अपने आग्रह पर अपने-अपने पक्षका समर्थन करते हैं। अर्थवादाश्चानर्थवादाश्चार्थादानर्थवादौ रूपं येषां तानि अर्थवादरूपाणि शाकपार्थिवा- दित्वादुत्तरपदलोपः। अर्थवादाश्चानर्थवादरूपाणि च अर्थवादरूपाणीति यद् च यल्लुक् च यल्लुकोरित्येकशेषो वा। केषाञ्चिद्वादाः अर्थवादमूलाः, केषाञ्चिच्च श्रुतितात्पर्यविषया इति तद्भावः। एकत्विनः—अद्वैतिनः 'एकमेवाद्वितीयम्' 'आत्मैवेदं सर्वम्' 'ऐतदात्म्यमिदं सर्वम्' 'तत्त्वमसि' 'नेह नानास्ति किञ्चन' 'वाचारम्भणं विकारो नामधेयं मृत्तिके- त्येव सत्यम्' 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इत्यादिश्रुतिबलेन जीव- ब्रह्मणोरैक्यं ब्रह्मव्यतिरेकेण जगतोऽभावं चातिष्ठमानाः 'द्वा सुपर्णा' 'य आत्मनि तिष्ठन्' 'अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः' इत्यादिद्वैत- बोधकश्श्रुतीनां प्रत्यक्षसिद्धभेदानुवादकत्वेन हीनबलत्वाद्बाध्यत्वमाचक्षते। द्वैतिनस्तु—प्रत्यक्षविरोधेनाद्वैतश्रुतय उपचारितार्था जगदास्थाविवृत्तये वैरा- ग्योपष्टम्भार्थाः। द्वैतश्रुतयस्तु प्रत्यक्षसंवादेन सत्यार्था इति मन्यन्ते। एवं चार्वाकादयोऽपि 'अहं गौरः' 'अहं स्थूलः' इति प्रत्यक्षाभासमाश्रित्य 'स वा एष पुरुषोऽन्नरसमयः' इति वाक्यं 'आत्मैव देहमयः' इति वैरोचनसिद्धान्तप्रति- पादवाक्यं च स्वमतोपष्टम्भाय स्वीकृत्य स्वमतमपि श्रौतीकर्तुं प्रतिपेदिरे। तदुक्तं विद्यारण्यस्वामिभिः— कूटस्थादिशरीरान्तसंघातस्यात्मतां जगुः। लोकायताः पामराश्च प्रत्यक्षाभासमाश्रिताः॥ श्रौतीकर्तुं स्वपक्षं ते कोशमन्नमयं तथा। वैरोचनस्य सिद्धान्तं प्रमाणं प्रतिजज्ञिरे॥ इत्यादिना— एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा। मन्त्रार्थवादकृत्स्नादीनाश्रित्य प्रतिपेदिरे॥ इत्यन्तेन ग्रन्थजातेन। उदयनाचार्या-अपि आत्मतत्त्वविवेकशेषे—'प्रथमं बहिरर्थ एव भासते यमाश्रित्य धर्ममीमांसोपसंहारः चार्वाकसमुत्थानं च तत्प्रतिपादनार्थं 'पराञ्चि खानि' इत्यादिः 'तद्धानार्थं परं कर्मभ्य' इत्यादि। अथार्थाकारः यमाश्रित्य वैदण्डिकमतोप- संहारः योगाचारसमुत्थानं च तत्प्रतिपादनार्थम् 'आत्मैवेदं सर्वम्' इत्यादि, तद्धा- नार्थम् 'अगन्धमरसम्' इत्यादि। अथार्थाभावः यमाश्रित्य वेदान्तद्वारमात्रोपसंहारः शून्यत्वनैरात्म्यसमुत्थानं च तत्प्रतिपादनार्थम् 'असदेवेदमग्र आसीत्' इत्यादि,