वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 47, कुल 192 में से
संदर्भ में पढ़ें१४ वाक्यपदीयम्
ततश्च श्रुतिमूलत्वाद्भाष्योदाहरणं न तत् । विरुद्धत्वे च बाधः स्यान्न चेहास्ति विरुद्धता ॥ न हि वेष्टनमात्रं हि स्पर्शश्रुत्या विरुध्यते । यदि द्वित्राङ्गुलं मध्ये विमुच्योत्तरभागतः ॥ वेष्टयेतौदुम्बरीं तत्र किं नाम न कृतं भवेत् । सर्वां वेष्टयितव्येति न ह्येषं सूत्रकृद्वचः ॥ प्राक् च लोभादिह स्पर्शः कुशैरेवान्तरीयने । वेष्टितैषा कुशैः पूर्वं वाससा परिवेष्ट्यते ॥ इति ग्रन्थेन श्रुतिविरुद्धार्थं निराकृत्य शाब्यानिमांसागतश्रुतिमूलकत्वस्य तन्त्र- वार्तिके स्थापनात् । 'अष्टाचत्वारिंशद्वर्षम्' इति स्मृतिरपि अन्धपङ्ग्वादिविषया नैष्ठिकब्रह्मचारिविषया वेति न जातपुत्रश्रुतिविरुद्धा । तदुक्तं तन्त्रवार्तिके— तत्रैवं शक्यते वक्तुं येऽन्धपङ्ग्वादयो नराः । गृहस्थत्वं न दाक्ष्यन्ति कर्तुं तेषामयं विधिः ॥ नैष्ठिकब्रह्मचर्यं वा परिव्राजकताऽपि वा । तैरवश्यं ग्रहीतव्या तेनादोषैतदुच्यते ॥ इति । ननु सर्वासाम् वेदविकल्पितस्मृतीनां श्रुतिमूलकत्वात्प्रामाण्याङ्गीकारे 'विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' 'हेतुदर्शनाच्च' इति सूत्राभ्यां कस्याः स्मृतेरप्रामाण्य- मुच्यते इति चेत् वेदबाह्यबौद्धादिकल्पितायाः स्मृतेरिति गृहाणेत्यलम् ॥ ७ ॥ जैसे 'गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनयनम्' यह स्मृति 'अष्टवर्षं ब्राह्मणमुपनयीत' इस प्रत्यक्ष श्रुतिसे बनाई गई है। कुछ 'अन्वष्टका कर्तव्या' यह स्मृति शिष्टाचारसे ही बनाई गई है और इनका मूल 'अष्टकासु राधसे स्वाहा' मन्त्र है। इसी तरह 'गुरुरनुगन्तव्यः' यह स्मृति 'तस्मात् श्रेयासं यन्तं पापीयान् पश्चादन्वेति' इस श्रुतिको देखकर रची गई है। इनमें 'अष्टका' स्मृतिका प्रयोजन केवल अदृष्ट है और 'गुरुरनुगन्तव्यः' स्मृतिका प्रयोजन गुरुजीको प्रसन्न रखना दृष्ट प्रयोजन भी है ॥ ७ ॥ दर्शनभेदा अपि वेदादेवेत्याह— इसी तरह दर्शन भी वेदमूलक होनेके कारण ही प्रमाण है। जो दर्शन वेद-मूलक नहीं वे प्रमाण नहीं और उनसे मङ्गलकी प्राप्ति भी नहीं हो सकती है। दर्शनोंमें भी जो भेद दिखाई पड़ते हैं वे भी वेदसे ही हैं। भेद कहीं बीचमें नहीं बन गया है। भेद होनेमें कारण यह है कि— तस्यार्थवादरूपाणि निश्चित्य स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधा मताः ॥ ८ ॥ तस्य वेदस्य अर्थवादरूपाणि अर्थवादानर्थवादरूपाणि वाक्यानि निश्चित्य आश्रित्य स्वविकल्पजाः स्वस्वबुद्धिप्रभवाः, विकल्पो बुद्धिभेदः तदुक्तं 'रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषाम्' इति, एकत्विनां द्वैतिनां च बहुधा भिन्नभिन्न-