भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 46, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 46

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १३ च श्रुतिमूलकस्मृतिकर्तृकत्वसामान्यात् असंप्रतिपन्नश्रुतिमूलकस्मृतीनां मूलं श्रुतिरनु- मेया, तदुक्तम्—'अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात्' इतिसूत्रेण जैमिनिना। स्मृतयो बहुरूपाश्चेति । स्मृतीनां पञ्चविधत्वमुक्तं भविष्यपुराणे— दृष्टार्था तु स्मृतिः काचिददृष्टार्था तथाऽपरा । दृष्टादृष्टार्थरूपाऽन्या न्यायमूला तथाऽपरा ॥ अनुवादस्मृतिश्चान्या शिष्टैर्दृष्टा तु पञ्चमा । एतासामुदाहरणानि तत्रैव— षड्गुणस्य प्रयोज्यस्य प्रयोगः कार्यगौरवात् । सामादीनामुपायानां योगो व्याससमासतः ॥ अध्यक्षाणां च निक्षेपः कण्टकानां निरूपणम् । दृष्टार्थेयं स्मृतिः प्रोक्ता ऋषिभिर्गरुडात्मज ॥ सन्ध्योपास्या सदा कार्या श्रुतौ मांसं न भक्षयेत् । अदृष्टार्था स्मृतिः प्रोक्ता ऋषिभिर्ज्ञानकोविदैः ॥ पलाशं धारयेद्दण्डमुभयार्था विदुर्बुधाः । न्यायमूला विकल्पः स्याज्जपहोमश्रुतौ यथा ॥ श्रुतौ दृष्टं यथा कार्यं स्मृतौ तत्तादृशं यदि । अनुक्तवादिनी सा तु परिव्रज्यं यथा गृहात् ॥ षड्गुणाः—सन्धिर्विग्रहो यानासनद्वैधीभावसमाश्रयाख्याः १। सामादीनां २ कार्य- गौरवाद्व्याससमासाभ्यां योगः प्रयोगः कर्तव्य इत्यर्थः । जपहोमश्रुताविति । सूर्यो- दयावधि सावित्रीजपोऽनुदितहोमविषयः । अनुक्तवादिनी = अनूदितवादिनी । यथा 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा' इत्यनयाऽनूदितं 'ब्राह्मणः प्रव्रजेद् गृहात्' इति मनुस्मृतिर्वदति विधत्त इत्यर्थः ॥ इति । ननु 'वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति' इत्येवंभूताः स्मृतयो लोभमूलाः 'औदु- म्बरी सर्वा वेष्टयितव्या' 'अष्टाचत्वारिंशद्वर्षं वेदब्रह्मचर्यम्' इत्येवंभूताश्च स्मृतयः 'औदुम्बरीं स्पृष्ट्वोद्गायेत्' 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यादि श्रुतिविरुद्धाः, तासां कथं वेदमूलकत्वसम्भव इति चेद्रोच्यते, वैसर्जनहोमीयस्मृतेः—'स्मृतीनां श्रुतिमूलत्वे ऽपि पूर्वनिरूपिते । विरोधे सत्यपि ज्ञानं शक्यं मूलान्तरं कथम् ॥' इत्यनेन लोभ- मूलकत्वं निराकृत्य श्रुतिमूलकत्वस्य, औदुम्बरीवेष्टनस्मृतेः— १. अरिविजिगीष्वोर्मध्यस्थाकारकमैक्यं सन्धिः । विरोधो विग्रहः । विजिगीषोररिं प्रति यात्रा यानम् । तयोर्मिथः प्रतिबद्धावस्थयोः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलशत्र्वोर्बलवच्छिक- मारम्भसंसर्गो द्वैधीभावः । अरिणा पीड्यमानस्य बलवदाश्रयणं संश्रयः । २. सामदानदण्डभेदाः । सामदाने दण्डभेदौ विदुषापयचतुष्टयमित्यमरान् । साम मान्त्वम् । दानं प्रसिद्धम् । दण्डो दमः । भेद उपजापः ।

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक) · पृष्ठ 46, कुल 192 में से · BharatKosha