वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 5, कुल 192 में से
संदर्भ में पढ़ेंश्रीविश्वेश्वरः शरणम् किञ्चिन्निवेदनम् अयि श्रद्धेया विपश्चिदपश्चिमा दार्शनिकशिरोमणयो वैयाकरणाः ! सुविदितमेवेदं तत्र भवतां भवतां यद् व्याकरणसिद्धान्तभूतस्य शब्दब्रह्मवादस्य निरूपणाय प्रवृत्तं धीमतो महावैयाकरणस्य भर्तृहरेः कृतिर्वाक्यपदीयं नाम, यन्महावैयाकरणैः कैयटनागेशादिभिः स्वस्व- निबन्धेषु भूयस्समादृतम्, दर्शनान्तराचार्यैः कुमारिलशङ्कराचार्यवाच- स्पतिमिश्रादिभिर्भूयः समालोचितं च । तस्य परमोपादेयतामालोच्य तत्तत्परीक्षाध्यक्षैर्व्याकरणाचार्यपरीक्षायां निवेशिततया तस्य यथार्थ- मर्थावबोधाय सरलव्याख्यामन्विष्यद्भिश्चात्रैस्तदलाभेन प्रार्थितेन मया वाक्यपदीयभावप्रदीपनाम्नी व्याख्या विरच्य विश्वेश्वरचरणकमलयोः समर्प्य भवतां करकमलयोरुपहारीक्रियत इति । भवदीयस्य सूर्यनारायणशुक्लशर्मणः ।