भारतकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 50, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 50

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् १७ पाठरूपेण पठिता वा। अद्वैतवादे कुतो न रागद्वेषायत आह—प्रणवेति । यतः सा विद्या प्रणवरूपेण सर्ववादाविरोधिनी अतो युक्ता परमार्थो नान्येत्यर्थः ॥ (जो रागद्वेष आदि दोषोंसे रहित) विशिष्ट बुद्धिशाली है और एक प्रणव (ॐकार) ही जिसे व्यक्त कर सकता है वह ब्रह्मरूपा एकत्वबोधिका विद्या ही सत्य है। यह ही विद्या सत्य अर्थ प्रकाशित करनेके कारण वेदमें वर्णित है। क्योंकि जितने (परमाणुकारणवाद, प्रधानकारणवाद आदि) वाद हैं इन सबसे कोई विरोध भी नहीं है। अतः वही वेदका परम सिद्धान्त है। परमाणुकारणवादो हि प्रधानकारणवादिविरुद्धो नाद्वैतवादः कल्पनयाऽद्वितीय- ब्रह्मण एव प्रधानपरमाणुरूपत्वात् यद्रूपं दर्शनभेदा ब्रह्मणः कल्पयन्ति तत्प्रणव एतत्तस्य रूपमित्यभ्यनुजानाति । तद्यथा तार्किकेन परमाणुर्जगत्कारणं, सांख्येन प्रकृतिर्जगत्कारणमित्युक्तेऽद्वैतिना ओमिति वक्तुं शक्यते परमाणुप्रकृत्यादीनां ब्रह्मा- नन्यत्वादिति सर्ववादाविरुद्धत्वं ब्रह्मणः । यद्वा प्रकर्षेण नौति स्तौतीति प्रणवः, प्रणवो हि ब्रह्म स्तौति इति प्रणवेन ब्रह्मणस्तादात्म्यात् प्रणव एव ब्रह्म तदेव सत्यं तद्विवर्त्तांश्चान्ये मिथ्या इति न मिथ्याभूतेन द्वैतेन सत्यस्याद्वैतस्य विरोध इति भावः । एतदेवाभिप्रेत्य गौडपादाचार्यैरुक्तम्— स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ कपिलकणादबुद्धार्हतादिदृष्ट्यनुसारिणो द्वैतिनो रागद्वेषोपेताः स्वसिद्धान्तदर्शन- निमित्तं परस्परं द्विषन्ति अद्वैतिनो हि सर्वात्म्यत्वात् यथा कदाचित् हस्तपदा- दिभिराहतोऽपि कश्चिन्न विरुध्यते तथा तैनं विरुध्यन्त इति तदर्थः । यतः अद्वैतं परमार्थः द्वैतं च तद्भेदः-तत्कार्यम् तद्विवर्तं इति यावत्, एकमेवाद्वितीयं तत्तेजो- ऽसृजत इति श्रुतेः । अतो न मिथ्याभूतेन द्वैतेन विरोधः। यथा मत्तगजस्थः उन्मत्तं भूमिष्ठं प्रति वाहय मां प्रतीति ब्रुवाणमपि तं प्रति न वाहयत्यविरोधबुद्ध्या तद्वत् द्वैतिनां तु उभयथा परमार्थतोऽपरमार्थतश्च द्वैतमेवातो विरोध इति । अत एव परमार्थसारे पतञ्जलिः— यद्यत्सिद्धान्तगमतर्कादिषु भ्रमन्ति रागाम्धाः । अनुमोदामस्तत्तत्तेषां सर्वात्मवाद्धिया ॥ इति । इदमत्र तत्त्वम्—कणादादयो हि मायिकत्वेन मिथ्याभूतत्वेन ब्रह्मरूपत्वेन च ज्ञातमपि प्रपञ्चं बोधनीयशिष्याधिकारानुसारेण तदीयमायिकस्याध्यवलम्ब्य ब्रह्मरूपत्वेन ज्ञातपरमाण्वादिभ्यः सृष्टिमाहुः । यदाहुः—'न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्' इति अतो न ऋषीणां परस्परं मतभेद इति ॥ ९ ॥ तात्पर्य यह है कि वे दर्शन जो परस्पर भिन्न हैं और एक पक्षपर आग्रह किए हैं। जैसे परमाणुकारणवाद और प्रधानकारणवाद । परमाणुकारणवादी कणाद जगत्की सृष्टि परमाणुसे मानते हैं। वहीं प्रधानकारणवादी कपिल जगत्का कारण प्रधानको (प्रकृतिको) ३-