वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 64, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ३३ तत्र ईश्वरोपाधिभूतमायाया एकत्वात्तन्निष्ठैकशक्त्या ईश्वररूपं वस्तु एकनिष्ठमेव । यथा मांसमयी योषित् । जीवानां च नानात्वेन तदीयमनसां नानात्वात्तत्तच्छक्त्या ईश्वरसृष्टमेवमेव योषिद्रूपं वस्तु जीवैर्भोग्यतया भार्या, स्नुषा, ननान्दा, माता इति नानाकारेण सृज्यते । शब्दतत्त्वाख्यं ब्रह्म च सूक्ष्मप्रणवरूपं परब्रह्मपदेन विभात्रगोङ्कारं च अपरब्रह्मपदेन शब्दब्रह्मपदेन च व्यवदिशन्ति पुराविदः । तथा च श्रुतिः 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः । तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति' [ प्रश्नोप० ५ प्र० ३ म० ] इति । एतेनायतनेन परब्रह्मप्राप्तिसाधनेन ओङ्कारेण एकतरं परब्रह्म अनुगच्छति नेदिष्टं शालम्बनं परब्रह्मणो यदोंकार इति तद्भाष्यः । अत एव च 'द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति स्मृतिः । वैयाकरणैस्तु परं ब्रह्मैव शब्दब्रह्मपदेनोच्यते । ओङ्कारस्य परब्रह्मप्राप्तिसाधनत्वञ्च 'ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानम्' 'ओमिति ब्रह्म ओमितीदं सर्वम् ओमित्येतदनुकृति ह स्म वा' 'एतद्धालम्बनं श्रेष्ठमेत- द्धालम्बनं परं एतद्धालम्बनं ज्ञात्वा ब्रह्मलोके महीयते' इति श्रुतिभिर्बोध्यते । तस्य परब्रह्मरूपस्योङ्कारस्य ओमित्युपव्याख्यानं तन्निकटवर्त्ति व्याख्यानं साक्षात्तद्बोधकत्वात् । ओमिति शब्दरूपं ब्रह्म तस्य ब्रह्मणोऽनुकृतिरनुकरणम्, ह स्म वाइति प्रसिद्धौ प्रसिद्धं ओङ्कारस्यानुकृतित्वम् , करोमि यास्यामीति पृष्टे ओमित्यनुकृतोत्यन्यः । अस्मादेवो- ङ्कारातत्रयी विद्या प्रभवति 'तेनेयं त्रयी विद्या विवर्त्तते' इतिश्रुतेः । अत एव 'स्वापेक्षञ्च समञ्जसम्' [ ३।३।३ ] इति सूत्रेण ओङ्कारस्य सर्ववेदव्यापित्वमुक्तं बादरायणेन । अयमेव ओङ्कारः 'प्राप्त्युपायोऽनुकारश्च' इति कारिकया वेदशब्देनोक्तः । शब्दब्रह्मप्राप्त्युपायत्वं च व्याकरणस्य शब्दसंस्कारद्वारा- 'तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञो ब्रह्मामृतमश्नुते' इति वक्ष्यमाणका- रिकयावगम्यते । शब्दसंस्कारस्य च सिद्धित्वं विद्ध्युपायात्वात् । व्यवस्थितसाधुभा- वेन रूपेण शब्दे संस्क्रियमाणेऽपभ्रंशोपघातापगमात् धर्मविशेषाविर्भावे सति साधु- शब्दप्रयोगज्ञानपूर्वकं तस्य शब्दब्रह्मणः प्रवृत्तितत्त्वं व्यवहारनिमित्तं रूपं समस्तब्रह्मा- ण्डार्थशारणभूतं पश्यन्त्याख्यं यो जानाति स तद्द्वारा अविकृतं ब्रह्म प्राप्नोतीत्यर्थः ॥ इसी शब्दतत्व रूपी ब्रह्मने प्रथमतः त्रिवृत् ओंकार, उससे अक्षर सामाम्नाय, उससे चार वेद और चारों वेदों से जगत् की रचना की। यही अविद्याके वशीभूत होकर भोक्ता बन कर शेय रूपतासे शून्य चैतन्य मात्र जीव कहा जाता है और मनकी वृत्ति रूप सङ्कल्पके द्वारा ईश्वरसे सृष्ट एक नन्दन योषित् आदि वस्तुओंको भोग्य वस्तुके रूपमें रचता है। सूक्ष्म प्रणव रूप शब्द तत्त्वाख्य ब्रह्मको परब्रह्म और विभात्र ओंकारको अपर ब्रह्म या शब्द-ब्रह्म नामसे वृद्ध विद्वानों ने कहा है। 'दो ब्रह्म जानना चाहिए शब्द-ब्रह्म और परब्रह्म शब्द ब्रह्मका ज्ञान हो जाने पर परब्रह्म की प्राप्ति होती है' स्मृतिका कथन है। वैयाकरण ५ वा०