वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 85, कुल 192 में से
संदर्भ में पढ़ेंआविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ ३७ ॥ न उपप्लुतानि रजस्तमोभिराक्रान्तानि चेतांसि येषां तेषामनुपप्लुतचेतसाम् तपसा क्षीणकल्मषाणाम् अत एव आविर्भूतं आवरणरहितः प्रकाशो ज्ञानं येषां ते तेषाम् आविर्भूतप्रकाशानां निरावरणख्यातीनां योगिनाम् यत् अतीतानागतज्ञानं जायते तत् प्रत्यक्षात् अस्मदादिप्रत्यक्षाद् न विशिष्यते न भिद्यते न विलक्षण- मिति यावत् ॥ यदपि लौकिकमात्रं तदपि आगमसहकृतयत्नपूर्वकप्रत्यक्षाभ्याम्जन्य- तया प्रयत्नपूर्वक मञ्जनादिना दृश्यद्रष्टॄणां सिद्धानां ज्ञानमिव उपनेत्रसहकृतचाक्षुष- मिव च प्रत्यक्षमेवेति ध्येयम् । यथा लोकः स्वमुखमपश्यन्नपि स्वच्छदर्पणे प्रतिबिम्ब- रूपेण पश्यत्येवम् ऋषयः तपसा विशुद्धे अन्तःकरणे अस्मदादिभिरग्राह्यमपि वस्तु अव्यभिचरितं पश्यन्ति तच्च ज्ञानं योगजप्रत्यक्षजन्यं न लौकिकप्रत्यक्षजन्यमनुमान- जन्यं वा येन लौकिकप्रत्यक्षानुमानयोरसंभवाल्लोकानां तत्राविश्वासो भवेदिति भावः ॥ ३७ ॥ जिनके चित्त रजोगुण और तमोगुणसे अभिभूत नहीं है। जिन्हें प्रकाश (ज्ञान) हो गया है उन महर्षियों को जो भूत और भविष्यत्का ज्ञान होता है । वह भी 'हम लोगोंके प्रत्यक्षकी ही भाँति प्रत्यक्ष है'॥३७॥ नन्विन्द्रियासम्बद्धविषयकम् ऋषीणां ज्ञानं कथं प्रत्यक्षम् कुतो वा 'आर्षं ज्ञानं मिथ्या इन्द्रियासम्बद्धविषयकत्वे सति प्रत्यक्षत्वाच्छुक्तिरजतवदिति' इत्यनुमानेन न बाध्यते इत्यत आह— यद्यपि महर्षियोंका वह प्रत्यक्षज्ञान इन्द्रियजन्य नहीं है। तथापि 'आर्षज्ञानं मिथ्या इन्द्रियासम्बद्धविषयकत्वे सति प्रत्यक्षत्वात्' इस अनुमानसे बाधित नहीं होता। क्योंकि— अतीन्द्रियानसंवेद्यान्पश्यन्त्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥ ३८ ॥ इन्द्रियमतिक्रान्ता अतीन्द्रियास्तान् अतीन्द्रियान्—इन्द्रियैरग्राह्यान् अत एव असंवेद्यान् प्रत्यक्षपूर्वकैरनुमानादिभिरपि अग्राह्यान् भावान् अन्तर्यामिणं, चतुर्विधपरमाणून्, अविवृत्तं शब्दब्रह्म, देवताः, कर्मणां फलप्रदसंस्कारम् फलजनन- शक्तिवैलक्ष्यं महावान्तरप्रतियोगितशक्तेः फलदानाभिमुख्यम्, आतिवाहिकं¹ शरी- रम्, इत्येवमादीन् ये ऋषयः आर्षेण व्यावहारिकादन्येन अलौकिकसमाधिरूपतपो- लब्धेन चक्षुषा चक्षुः सदृशेन योगजधर्मेण पश्यन्ति तेषां वचनम् अनुमानेन अनवस्थितेन अतीन्द्रियार्थे प्रवर्तितुमशक्तेन च न बाध्यते इत्यर्थः ॥ लौकिकप्रत्यक्षे विषयेन्द्रियसम्बन्धस्य कारणत्वेऽपि योगजप्रत्यक्षे तस्याकारणत्वेन आर्षज्ञानस्य १० इह मृतस्य देशान्तरे शरीरान्तरग्रहाय यदन्तरा भव शरीरं तद्देशमतिवाहयति तदातिवाहिकम् ॥