वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 97, कुल 192 में से
संदर्भ में पढ़ें६८ वाक्यपदीयम् यः शब्दसंज्ञकः लोके शब्द इति प्रसिद्धः बाह्यः श्रोत्रानुपाती वर्णरूपावयववान् सक्रमः शब्दः क्रतुः ज्ञानमिवार्थमनतिक्रामन् क्रतुसदृशः 'यत्क्रतुः पुरुषः' इत्यादौ ज्ञाने क्रतुशब्दप्रयोगात् अण्डे भवः आण्डो रसस्तस्य भावः आण्डभावः रसरूपतापन्नम् आण्डभावम् आपन्न इव वर्तते तस्य क्रियारूपा आविर्भावतिरोभावरूपा वृत्तिः भागशः अवयवेषु क्रमं भजते इत्यर्थः ॥ जो लोगोंके कानतक क्रमसे सुनाई पड़ता है वह शब्द नामका क्रतु (ज्ञान) मयूर पक्षीके अण्डेमें स्थित कलल (रस) की तरह है। उसकी क्रियारूप (प्रकट और तिरोहित होनेवाली) वृत्ति अवयवोंमें क्रमसे प्रकट होती है । एतदुक्तं भवति—यथा मयूरादयः अङ्गप्रत्यङ्गचन्द्रकादीनामुपसंहारेण लीयमानाः सूक्ष्मरूपेण तदुत्पादनशक्त्या सह रसभावमापन्ना अण्डे समवतिष्ठन्ते पुनश्च अ