भारतकोश
वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

Vasavadatta of Mahakavi Subandhu with Commentary

महाकवि सुबन्धु द्वारा

DevanagariHindipublished244 पृष्ठ

पृष्ठ 165, कुल 244 में से

संदर्भ में पढ़ें
पृष्ठ 165

श्रीहयग्रीवाय नमः। वासवदत्ता सव्याख्या। (१) [२] करबदरसदृशं अखिलं भुवनतलं यत्प्रसा- दतः कवयः पश्यन्ति सूक्ष्ममतयस् सा जयति सरस्वती देवी। खिन्नो ऽसि मुञ्च शैलं बिभृमो वयम् इति वदत्सु शिथिलभुजः भरभुग्नवि(तथ)बाहुषु गोपेषु हसन् हरिर् जयति। [४] स जयति हिमकरलेखा चकास्ति यस्यो ऽमयो ऽत्(कया) निहिता नयनप्रदीपकज्जलजिघृक्षया रजतशुक्तिर् इ(२)व। [३] कठिनतरदामवेष्टनलेखासंदेहदायिनो यस्य राजन्ति वलिविभङ्गास् स पातु दामोदरो भवतः। [४] भवति सुभगत्वम् अधिकं विस्तारितपरगुणस्य सुजनस्य वहति विकासितकुमुदो द्विगुणरुचिं हिमकर(द्)योतः। [५] विषधरतो ऽप्य् अतिविषमः खल इति न मृषा वदन्ति विद्वांसः यद् अयं नकुलद्वेषी सकुलद्वेषी पुनः (पुनः) पिशुनः। [६] अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः तिमिरे हि कौशिकानां रूपं प्रतिपद्यते (दृष्टिः)। [७] हस्त इव भूतिमलिनो यथा यथा लङ्घयति खलस् सुजनम् दर्पणम् इव तं कुरुते तथा तथा निर्मलच्छायम्। [६] विध्वस्तपरगुणानां भवति खलानाम् अतीव मलि- नत्वम् अन्तरितशशिरुचाम् अपि सलिलमुचां मलिणिमा ऽभ्य- धिकः। [७] सा रसवत्ता विहता नवका (३) विलसन्ति चरति नो कं कः सरसी ऽव कीर्तिशेषं गतवति भुवि विक्रमादित्ये। L

वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक) · पृष्ठ 165, कुल 244 में से · BharatKosha