भारतकोश
वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

Vasavadatta of Mahakavi Subandhu with Commentary

महाकवि सुबन्धु द्वारा

DevanagariHindipublished244 पृष्ठ

पृष्ठ 166, कुल 244 में से

संदर्भ में पढ़ें
पृष्ठ 166

१४६ वासवदत्ता [८] अविदितगुणा ऽपि सत्कवि(फणितिः) कर्णेषु वमति म- धुधाराम् अनधिगतपरिमला ऽपि हि हरति दृशं मालतीमाला। गुणिनाम् अपि निजरूपप्रतिपत्तिः परतः एव सम्भवति स्वमहिमादर्शनम् अक्ष्णोर् मुकुरतले जायते यस्मात्। [९] [सरस्वतीदत्तवरप्रसादश् चक्रे सुबन्धुः सुजनैक- बन्धुः प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनि- धिर् निबन्धम्]। [१०] अभूद् (अखर्वविभवः) सर्वोर्वीपतिचक्र[चारु]चूडा- मणि(श्रेणि)शाण[११]कोणकषण(वि)मलीकृत(पाद)नखमणिः नृ- सिंह इव द(४)र्शितहिरण्यकशिपुक्षेत्रदानविस्मयः कृष्ण इव कृतवसुदेवर्पणः [१२] नारायण इव सौकर्यसमासादित- (धरणी)मण्डलः कंसारातिर् इव जनितयशोदानन्दसमृद्धिः आनकदुन्दुभिर् इव कृतकाव्या[१३]दरः सागरशायी ऽवा ऽनन्त- भोगिचूडामणि(श्रेणि)रञ्जितपाद(ह)[पद्मो] वरुण इवा ऽशा(५)न्- तरक्षणः अगस्त्य इव दक्षिणाशाप्रसाधकः जलनिधिर् इव वाहिनीशतानायकः समकरप्रचारश् च हर [१४] इव महासेन- आनु(यातो निर्जित १)मारश् च मेरुर् इव विबुधालयो विश्वकर्माश्- रयश् च रविर् इव क्षणदानप्रियश् छायासंतापहरश् च कुसुम- (आयुध) इव जनितानिरुद्धसम्पद् रतिसुखप्रदश् च विद्या- धर[१५]रो ऽपि सुमनाः धृतराष्ट्रो ऽपि गुणप्रियः (६) क्षमानु- गतो ऽपि [१६] सुधर्माश्रितः २ बृहन्नलानुभावो ऽप्य् अन्तस्सर- लः महिषीसम्भ[१७]वो ऽपि वृषोत्पादी अतरलो ऽपि महानायकः राजा चिन्तामणिर् नाम। यत्र च शासति (धरणी ३)मण्डलम् छलनग्रहप्रयोगो (न्यायशास्त्रेषु ४) [१८] नास्तिकता चार्वाकेषु कण्टकयोगो [नि]योगेषु परिवादो [१९] वीणासु खलसम्(प्र)यो- गश् शालिषु द्विजिह्वसम्(ग्रहीतिर् अहि)तुण्डिकेषु करच्छेदः (कुट्- मल)ग्रहणेषु नेत्रोत्पाटनम् मुनीनाम् (७) [द्विज]राजविरु[२०]द्- धता पङ्कजानाम् सार्वभौमयोगो (दिग्गजानाम् ५) [अग्नितुला-


1 So also Hall’s manuscripts A, B, C, E, F, G, H, and the commentator Narasiṃha. 2 Tel. ed. 61 and Grantha ed., āśrayaḥ. 3 Tel. ed. 61, Grantha ed., and Srirangam text, dharām. 4 Cf. nāyāyikavādeṣu in Hall’s manuscript F; Trichinopoly ed., nyāyēṣu. 5 So also Hall’s manuscripts A, B, C, D, E, F, G, H, and the commentator Jagaddhara.