भारतकोश
वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

Vasavadatta of Mahakavi Subandhu with Commentary

महाकवि सुबन्धु द्वारा

DevanagariHindipublished244 पृष्ठ

पृष्ठ 167, कुल 244 में से

संदर्भ में पढ़ें
पृष्ठ 167

शुद्धिः सुवर्णानां] (सूचि)भेदो मणीनां शूलभंगो युवती- (नवप्रसवेषु अग्नितुलाशुद्धिस स्वर्णानां) दुश्शासन[२१]दर्श- नं (महा)भारते करपत्र(वि)दारणं जलजानां (परम् एवं व्यवस्थितं). महावराहो गोत्रोद्धरणप्रवृत्तो ऽपि गोत्रोद्द- ळनम् अकरोत्. राघवः परिहरन्नपि जनकभुवं जनक- भुवा सह वनं विवेश. भरतो (राम)दर्शितभ[२२]क्तिर् अपि राज्ये विरामम् अकरोत्. नळस्य दमयन्त्या मिळितस्या ऽपि पुनर्- भूपरिग्र(८)हो जातः. पृथुर् अपि गोत्रसमुत्सारणविस्तारितभू- मण्डलः. (तद्) इत्थं ना ऽस्ति वागवसरः (पूर्वतनेषु¹) राजसु (अपि तु वचनीयतायाः). स पुनर् अन्यो [एव] देवो न्यक्कृतसर्- वोर्वीपति(चक्र)चरितः. तथाहि स पर्वतः कटकसंचारिणो गन्धर्वान् दर्शितशृंगोन्नतिस् सुख[२३]यन् न विरराम. स हि- मालयो नावश्यायोच्छलितो नो मायाजन्मने हितश् च. स हिमानी गिरि स्थितो वृषध्वजश् (च). (९) (स) सदागतिश् (चा) ऽवधूताखिल- कान्तारः पावकाग्रेसरो न [२४] भोगोत्सुकस् सुमनोहरश् च. स रत्नाकरो ऽन(तिमयो) [कथम् अ]ऽगाधस् सम(१०)र्यादः नोद्रोको [ऽप्य् अस्य] विस्मयस् सदा हिमकर(ा[२५]शयो) ऽमृत- मयस् (सत्पात्रस्) तस्या ऽचलो नक्यो ऽधो महानदीनस् समुद्रश् (च). [२६] स [चन्द्र इव] क्षणदानंदकरः कुमुदवन(ऐ- क)बंधुस् सकलकलाकुलगृहं नतारातिबलश् (चंद्रश् च. स) मित्रोदयहेतुः कांचनशोभां बिभ्रद[२७]चलाधिकलक्ष्मी- (११)स् सुमेरुः [इव]. यस्य च रिपुवर्गस् सदापार्थो ऽपि न म- हाभारतरणयोग्यः भीष्मो ऽप्य् अशांतनवेहितः सानुचरो ऽपि न गोत्रभूषितः. (१२) [२८] [अपि च] स त्रिशंकुर् (अपि) न (ना)क्षत्रपथ(च्युतः) शं करो ऽपि न विषादी पावको ऽपि न कृष्णवर्त्मा (ना) "श्रयाशो [ऽपि] न दहनश् (च) ना ऽमृतक [२९] इवा ऽकस्माद् अपहृतजीवनः न राहूर् इव मित्रमण्डलग्रहण- (सं)वर्धितरुचिः न नळ इव कलिवि(जितविग्रहः) न चक्री "व सृगालवधस्तुतिसमुल्लसितः नंदगोप इव यशोदया (ऽन्वितः ²) जरासंध इव घटितसंधिविग्रहः भार्गव इव सदान- भोगः दशरथ [३०] इव सुमित्रोपेतः सुमंत्राधिष्ठितश् च दिलीप इव सुदक्षिणाactivityन्(वितः ³) रक्षित(१३)गुश् च राम इव जनि- सकुशलवयोरूपोच्छ्रायः. तस्य च (राज्ञः) पारिजात इवा "श्रित-


¹ Trichinopoly ed. and Srirangam text, पूर्वतरेषु. ² So also Hall's manuscripts C, E, F, H, and the commentator Jagaddhara. ³ Cf. anugatō in Hall's manuscript C. L 2