भारतकोश
वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

वासवदत्ता (महाकवि सुबन्धु - श्लेष-प्रधान शास्त्रीय गद्यकाव्य सान्वय सटीक)

Vasavadatta of Mahakavi Subandhu with Commentary

महाकवि सुबन्धु द्वारा

DevanagariHindipublished244 पृष्ठ

पृष्ठ 168, कुल 244 में से

संदर्भ में पढ़ें
पृष्ठ 168

नन्दनः हिमालय इव जनि[३१]तशिवः मन्दर इव भोगि- भोगाङ्कितः कैलास इव महेश्वरोपभुक्तकोटिः मधुरिव नानारामानन्दकरः क्षीरोदमथनोद्य[३२]तमन्दर इव मुखरितभुवनः राग(१४)(राज) इवो ऽल्(लसित)रतिः ईशानभूति- सञ्चय इव सन्ध्योच्छलितः शरन्मेघ इवा ऽवदातहृदयः [३३] विष्णुपदावलम्बी च पार्थ इव समरसाहसोचितः कंस इव [३४] कुवलयापीड(भूषणः) तार्क्ष्य इव [विनतानन्दकरः] सुमुखनन्दन(ः) [च] विष्णुरिव क्रोडीकृतसुतनुः शान्तनव इव स्ववश[स्थापित]काल[३५]धर्मः कौरवव्यू(१५)ह इव सु- शर्माधिष्ठितः [सुबाहुरिव रामानन्दी समदृष्टिरपि महे- श्वरो मुक्तामयो ऽप्यतरलमध्यो] जल(धरसमय) इव [३६] विमलतरवारिधारात्रासितराजहंस(मण्डलः ¹ सुबाहुरपि रा- मानन्दकरः समदृष्टिरपि महेश्वरः मुक्तामयो ऽप्य- तरलमध्यः) वंश[प्र]दीपो ऽप्यक्षतदशः तनयो (ऽभूत्) कन्दर्पकेतुर्नाम। येन [च] चन्द्रेणे ऽव सकलकलाकुल- गृहेण शर्वरीतिहारिणा [३७] (कैरववि)बन्धुना प्रसाधिताशेन विलोकि(१६)ता जलधय इव (सम्)उल्लसितगोत्रास् सुदूर[वि ²]वर्धि- तजीवनाः प्रसन्नसत्त्वास् [३८] सन्तः परां (ऋद्धिम्) अवापुः। यस्य [च] जनितानिरुद्धलीलस्य रतिप्रियस्य कुसुमशरासनस्य मकरकेतोरिव दर्शनेन वनिताजनस्य हृदयमुल्ललास। यस्मै चा ऽनुगतदक्षिणसदागतये (नेत्र ³)श्रुतिसुख(प्रदाय) कोमलकोकिलरुताय वि(कसित)पल्लवाय कृतका[३९]म्तारतरम्- गाय सुरभिसुमनोभिरामाय सर्व[जन]सुलभपद्माय वि- (स्तृत ⁴)कन(१७)कसम्पदे अतिक्रान्तदमनकाय वसन्ताये ऽवो (ऽप)वन[४०]लता इवो ऽत्कलिकासहस्रसङ्कुला भ्रमरसङ्गताः प्रवालहारिण्यो विलसद्वयसस्तरुण्यः स्पृहयां चक्रुः। यस्य च समरभुवि [४१] भुजदण्डेन कोदण्डं कोदण्डेन (बा- णः बाणैर्) अरिशिरः (अरिशिरसा) भूमण्डलं (भूमण्डलेना) ऽनुभूत(पूर्वनायकस्मरणं स्मरणेन च) कीर्तिः कीर्त्या च सप्त सागराः सागरैः कृतयुगादिराज[चरित]स्मरणम् (स्मर- णेन) स्थैर्यं (स्थैर्येण) प्रतिक्षणम् आश्चर्यम् आसादितम्। ¹ So also Hall's manuscripts C, E, F, G, H, and the commentator Narasiṃha. ² Hall's manuscripts B, C, D, G, H also omit vi; Trichinopoly ed., parivardhita. ³ So also Hall's manuscripts A, B, C, D, E, F, H, and the commentators Narasiṃha and Jagaddhara. ⁴ Cf. viṣkṛta in Hall's manuscript D.