वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 26, कुल 106 में से
संदर्भ में पढ़ें१२ प्रक्षाल्य पादौ पाणी चा मणिबन्धात्प्राग्वोदग्वासीनोऽङ्गुष्ठमूलस्यो- त्तररेखा ब्राह्मं तीर्थं तेन त्रिराचामेदशब्दवत् ॥ २६ ॥ द्विः परिमृजीत ॥ २७ ॥ खान्यद्भिः संस्पृशेत् ॥ २८ ॥ मूर्धन्यपो निनयेत्सव्ये च पाणौ ॥ २९ ॥ व्रजंस्तिष्ठञ्छयानः प्रणतो वा नाचामेत् ॥ ३० ॥ हृदयङ्गमाभिरद्भिर्बुद्बुदाभिरफेनाभिर्ब्राह्मणः ॥ ३१ ॥ कण्ठगाभिस्तु क्षत्रियः ॥ ३२ ॥ वैश्योद्भिः प्राशिताभिः ॥ ३३ ॥ स्त्रीशूद्रं स्पृष्टाभिरेव च ॥ ३४ ॥ अ्रदरादपि या गोस्तर्पणसमर्थाः स्युः ॥ ३५ ॥ न वर्णगन्धरसदुष्टाभिर्याश्च स्युरशुभागमाः ॥ ३६ ॥ न मुख्या विप्रुष उच्छिष्टं कुर्वन्त्यनङ्गस्पृष्टाः ॥ ३७ ॥ सुप्त्वा भुक्त्वा क्षुत्वा पीत्वा रुदित्वा स्नात्वा चान्तः पुनराचामे- द्वासश्च परिधाय ॥ ३८ ॥ ओष्ठौ संस्पृश्य यन्नालोमकौ ॥ ३९ ॥ न श्मश्रुगतो लेपः ॥ ४० ॥ दन्तवद्दन्तसक्तेषु यच्चान्तर्मुखे भवेन्निगिरेच्च तच्छुचिरिति ॥ ४१ ॥ परानप्याचामयतः पादौ या विप्रुषो गताः । ताभिर्नोच्छिष्टतां यान्ति भूम्यास्तास्तु समाः स्मृताः ॥ ४२ ॥ 26. ॰उत्तरतो रेखा B. F. H. ब्राह्मं E. विराचामेत° Ban. ed. M st probably it has to be read आसीनो ब्राह्मतीर्थेन त्रि° as the nominatives अङ्गुष्ठमूलस्योत्तररेखा are undoubtedly added by interpolation. 27 परिसृज्यात् F. 28. खान्यद्भिरद्भिः B. H. 32. क्षत्रियः शुचिः F. H. 33. प्राशिताभिस्तु. B. F. H. 34. एव तु B. H. 35. यो गोस्तर्पणा. Bh. E. H. 38. चास्वान्तः F. 39: अलोमकौ. Bh. E. 4.. यच्चाप्यन्तर्मुखे B. H. अन्तर्मुखी Bh. भवेदाचान्तस्यानिगिरंश्चैव तच्छुचिः F. 42. परानन्यानाचामयत B. ed, भूम्यास्ताश्च. F. H.