वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 27, कुल 106 में से
संदर्भ में पढ़ें१३ चरन्नभ्यवहारेषु उच्छिष्टं यदि संस्पृशेत् । भूमौ निधाय तद्द्रव्यमाचम्य प्रचरेत्पुनः ॥ ४३ ॥ यद्यन्मीमांस्यं स्यादद्भिः संस्पृशेत् ॥ ४४ ॥ श्वहताश्च मृगा वन्याः पातितं च खगैः फलम् । बालैरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् ॥ ४५ ॥ प्रसारितं च यत्पण्यं ये दोषाः स्त्रीमुखेषु च ॥ ४६ ॥ मशकैर्मक्षिकाभिश्च निलीनैर्नोपहन्यते । क्षितिस्थाश्चैव या आपो गवां तृप्तिकराश्च याः । तृप्तिकर्य इति पाठे परिसंख्याय तान्सर्वाञ्शुचीनाह प्रजापतिरिति ॥ ४७ ॥ लेपगन्धापकर्षणे शौचममेध्यलिप्तस्याद्भिर्मृदा च ॥ ४८ ॥ तैजसमृन्मयदारवतान्तवानां भस्मपरिमार्जनप्रदाहनतक्षणधाव- नानि ॥ ४९ ॥ तैजसवदुपलमणीनाम् ॥ ५० ॥ मणिवच्छङ्खशुक्तीनाम् ॥ ५१ ॥ दारुवदस्थ्नाम् ॥ ५२ ॥ रज्जुविदलचर्मणाञ्चैलवच्छौचम् ॥ ५३ ॥ गोवालैः फलमयानाम् ॥ ५४ ॥ गौरसर्षपकल्केन क्षौमजानाम् ॥ ५५ ॥ भूमेस्तु संमार्जनोपलेपनोल्लेखनप्रोक्षणोपकरणैर्यथास्थानं दोषविशे- षात्प्रायत्यमुपैति ॥ ५६ ॥ अथाप्युदाहरन्ति । खननाद्दहनाद्वर्षाद्गोभिराक्रमणादपि । चतुर्भिः शुध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ ५७ ॥ 43. प्रच° H. प्रचरन्त्यवहारे॑षु F. 44. स्यात्तदद्भिः B. E. 46. निलीनं F. निलन्तं E. H. 49. ॰रवतां नवानां H, ॰प्रदाहतक्ष° B. F. ॰प्रदाहलक्ष॰. H. 51. शुक्लीनां. H. 56. भूमिं तु F. H. 57. वर्षात् F. H. ॰गोमिभिराक्रं H.