वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 30, कुल 106 में से
संदर्भ में पढ़ें१६ अशक्तौ क्रीतोत्पन्नेन वर्तेरन् ॥ १५ ॥ दशाहं शावमाशौचं सपिण्डेषु विधीयते ॥ १६ ॥ सपिण्डत्वं साप्तपुरुषं विज्ञायते ॥ १७ ॥ प्रत्तानां च स्त्रीणां त्रिपुरुषं विज्ञायते ॥ १८ ॥ प्रत्तानामितरे कुर्वीरंस्ताश्च तेषाम् ॥ १९ ॥ जननेप्येवमेव स्यान्निपुणां शुद्धिमिच्छताम् ॥ २० ॥ मातापित्रोर्वा ॥ २१ ॥ तन्निमित्तत्वान्मातुरित्येके ॥ २२ ॥ अथाप्युदाहरन्ति । नाशौचं सूतके पुंसः संसर्गं चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यत इति ॥ २३ ॥ तच्चेदन्तः पुनरापतेच्छेषेण शुध्येरन् ॥ २४ ॥ रात्रिशेषे द्वाभ्याम् ॥ २५ ॥ प्रभाते तिसृभिः ॥ २६ ॥ ब्राह्मणो दशरात्रेण ॥ २७ ॥ पञ्चदशरात्रेण राजन्यः ॥ २८ ॥ विंशतिरात्रेण वैश्यः ॥ २९ ॥ शूद्रो मासेन शुध्यति ॥ ३० ॥ अथाप्युदाहरन्ति । अशौचे यस्तु शूद्रस्य सूतके वापि भुक्तवान् । स गच्छेन्नरकं घोरं तिर्यग्योन्यां च जायते ॥ ३१ ॥ 17. सपिण्डः सप्तपुरुषं. F. H. 18. अप्रत्तानां B. H. 19. B. ed. omits ताश्च तेषां which Sūtra all my MSS. have. 20. जननेप्येवमेव निपुणां F. 23. संसर्ग नैव F. अशुभिर्भवति तच्च पुंसि न H. Bh. 28. भूमिपः F. 31. जायत इति. F. H.