वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 31, कुल 106 में से
संदर्भ में पढ़ें१७ अनिर्दशाहे परशवे नियोगाद्भुक्तवान्द्विजः । कृमिर्भूत्वा स देहान्ते तां विष्ठां समुपानुते इति ॥ ३२ ॥ द्वादश मासान्द्वादशार्धमासान्वान्नश्नन्संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते ॥३३॥ ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रमाशौचम् ॥ ३४ ॥ सद्यः शौचमिति गौतमः ॥ ३५॥ देशान्तरस्थे प्रेते ऊर्ध्वं दशाहाच्छ्रुत्वैकरात्रमाशौचम् ॥ ३६ ॥ आहिताग्निश्चेत्प्रवसन्म्रियेत पुनः संस्कारं कृत्वा शववच्छौचमिति गौतमः ॥ ३७ ॥ यूपचितिश्मशानरजस्वलासूतिकाशुचींश्च स्पृष्ट्वा सशिरस्कोऽभ्युपेया- दप इत्यप इति ॥ ३८ ॥ इति वासिष्ठधर्मशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥ अस्वतन्त्रा स्त्री पुरुषप्रधाना ॥ १ ॥ अनग्निकानुदक्या वामृतमिति विज्ञायते ॥ २ ॥ अथाप्युदाहरन्ति । पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हतीति ॥ ३ ॥ तस्या भर्तुरभिचार उक्तं प्रायश्चित्तं रहस्येषु ॥ ४ ॥ मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ५ ॥ त्रिरात्रं रजस्वलाशुचिर्भवति ॥ ६ ॥ 32. अन्तर्दशाहे परशवे नियोगाद्यस्तु भुक्तवान् F. तां विष्ठामुपजीवति. F. 38. पूय instead of यूप B. Ban. ed. सुतका H. अशुचीनुपस्पृश्य सशिरा अभ्युपेयादपः F. V. 2. अमृतं E. H. अनृतं F. अमृतिं Bh. 3. अत्र° F. अथाभ्युदा° H. पुत्राश्च F. H. 4. मातुः° F. नर्तुरतीवारा Bh. E. H.