वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 33, कुल 106 में से
संदर्भ में पढ़ें१९ आचारः परमो धर्मः सर्वेषामिति निश्चयः । हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ॥ १ ॥ नैनं तपांसि न ब्रह्म नाग्निहोत्रं न दक्षिणाः । हीनाचारमितो भ्रष्टं तारयन्ति कथंचन ॥२॥ आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ ३ ॥ आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः । कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ॥ ४ ॥ नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । द्वेप्यक्षरे सम्यगधीयमाने पुनाति तद्ब्रह्म यथा इषेब्दोः ॥ ५ ॥ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोल्पायुरेव च ॥ ६ ॥ (मनु० ४।१५७) आचारात्फलते धर्म आचारात्फलते धनम् । आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ७ ॥ सर्वलक्षणहीनोपि यः सदाचारवान्नरः । श्रद्दधानोनसूयश्च शतं वर्षाणि जीवति ॥ ८ ॥ (मनु० ४।१५८) VI. 1. प्रथमो धर्मः E. F. अनाचार° F. हीनाचारः परीतात्मा B. Ban. ed. Bh. E. 3. जातवृक्षाः H. 4. षडङ्गाः सखिलाः B. Ban. ed. H. °उन्मादयितुं H. 8. अपि समुदाचारवांन्नरः F. H.