भारतकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 34, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 34

✲ दक्षिणादाच् इति सप्तम्यन्तादाच् प्रस्तातेरर्थे। २० आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः । वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये ॥ ९ ॥ उभे मूत्रपुरीषे दिवा कुर्यादुदङ्मुखः । रात्रौ तु दक्षिणाँ कुर्यादेवं ह्यायुर्न रिष्यति ॥ १० ॥ प्रत्यग्निं प्रति सूर्यं च प्रति गां प्रति ब्राह्मणम् । प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः ॥ ११ ॥ न नद्यां मेहनं कुर्यान्न पथि न च भस्मनि । न गोमये न कृष्टे नोप्ते न शाद्वलोपजीव्यच्छायासु ॥ १२ ॥ छायायामन्धकारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणबाधाभयेषु च ॥ १३ ॥ उद्धृताभिरद्भिः कार्यं कुर्यात् ॥ १४ ॥ स्नानमनुद्धृताभिरपि ॥ १५ ॥ आहरेन्मृत्तिकां विप्रः कूलात्ससिकता तु या ॥ १६ ॥ अन्तर्जले देवगृहे वल्मीके मूषकस्थले । कृतशौचावशिष्टा वा न ग्राह्याः पञ्च मृत्तिकाः ॥ १७ ॥ एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् । पश्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ १८ ॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां तच्चतुर्गुणमिति ॥ १९ ॥ 9. ॰बुद्धिवीर्याणि F. H. 10. तु दिवा B. H. न रिष्यते F. न हिष्यति B. Ban. ed. 11. प्रति च द्विजं F. 12. नचाकृष्टे नोप्ते न शाद्वलोपजीव्यच्छायासु Bh. E. F. 17. च instead of वा F. H. 18. उभाभ्यां द्वेतु मृत्तिके F. 19. चतुर्गुणं B. Ban. ed. H.