वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 36, कुल 106 में से
संदर्भ में पढ़ेंस्वाध्यायोत्थं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरुं बहुज्ञम् । स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्लान्तं तादृशं पात्रमाहुः ॥ ३० ॥ आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु । विनश्येत्पात्रदौर्बल्यान्न च पात्रं रसाश्च ते ॥ ३१ ॥ एवं गा वा हिरण्यं वा वस्त्रमश्वं महीं तिलान् । अविद्वान्प्रतिगृह्णानो भस्मीभवति काष्ठवत् ॥ ३२ ॥ नाङ्गनखवादनं कुर्यात् ॥ ३३ ॥ नखैश्च भोजनादौ ॥ ३४ ॥ न चापोज्जलिना पिबेत् ॥ ३५ ॥ न पादेन पाणिना वा जलमभिहन्यात् ॥ ३६ ॥ न जलेन जलम् ॥ ३७ ॥ नेष्टकाभिः फलं शातयीत ॥ ३८ ॥ न फलेन फलम् ॥ ३९ ॥ न कल्को न कुहको भवेत् ॥ ४० ॥ न म्लेच्छभाषां शिक्षेत ॥ ४१ ॥ अथाप्युदाहरन्ति । न पाणिपादचपलो न नेत्रचपलो भवेत् । न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ ४२ ॥ 30. स्वाध्यायायं Bh. E. H. कान्तं instead of क्षान्तं F. H. 31. दौर्ब- ल्यात्तच्च F. तत्र पात्रं Bh. नश्यसेत्पात्रदौर्बलत्वात्तत्पात्रं E. H. 32. एवं गावो B. Ban. ed. H. दारुवत् instead of काष्ठवत् F. 33. नाङ्गानां छेदनं. F. नाङ्गरनखवादनं Bh. 38. फलानि B. Ban. ed. H. फलानि पातयेत् F.