वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 37, कुल 106 में से
संदर्भ में पढ़ें२३ पारम्पर्या- पारंपर्यगतो येषां वेदः सपरिवृंहणः। ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ ४३ ॥ यं न सन्तं न वासन्तं नाश्रुतं न बहुश्रुतम्। न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः॥ स ब्राह्मण इति ॥ ४४ ॥ इति वासिष्ठधर्मशास्त्रे षष्ठोऽध्यायः ॥ ६ ॥ चत्वार आश्रमाः ॥ १ ॥ ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः ॥ २ ॥ तेषां वेदमधीत्य वेदौ वेदान्वाविशीर्णब्रह्मचर्यो यमिच्छेत्तमा- वसेत् ॥ ३ ॥ ब्रह्मचार्याचार्यं परिचरेदा शरीरविमोक्षणात् ॥ ४ ॥ आचार्ये च प्रेतेऽग्निं परिचरेत् ॥ ५ ॥ विज्ञायते ह्यग्निराचार्यस्तवेति ॥ ६ ॥ संयतवाक् ॥ ७ ॥ चतुर्थषष्ठाष्टमकालभोजी ॥ ८ ॥ भैक्षमाचरेत् ॥ ९ ॥ गुर्वधीनः ॥ १० ॥ जटिलः शिखाजटो वा ॥ ११ ॥ गुरुं गच्छन्तमनुगच्छेदासीनश्चेत्तिष्ठेच्छयानश्चेदासीन उपासीत १२ आहूताध्यायी ॥ १३ ॥ सर्वं लब्धं निवेद्य तदनुज्ञया भुञ्जीत ॥ १४ ॥ 43 ॰प्रत्यद्वहेतवः H. VII. 5. स्रुते Bh. E. 6. हि त्वाग्निरत्चार्य इति F. 8. भोक्तं H. 12. अनुमछन्नासीनं Bh. E. वासिष्ठधर्मं ४