वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 38, कुल 106 में से
संदर्भ में पढ़ेंखट्वाशयनदन्तधावनप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी ॥१५॥ तिष्ठेदहनि रात्रावासीत ॥ १६ ॥ त्रिरह्नोऽभ्युपेयादप इत्यप इति ॥ १७ ॥ इति वासिष्ठधर्मशास्त्रे सप्तमोऽध्यायः ॥ ७ ॥ गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वासमानार्षेयामस्पृष्ट- मैथुनामवरवयसीं सदृशीं भार्यां विन्देत ॥ १ ॥ पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः ॥ २ ॥ वैवाहिकमग्निमिन्धीत ॥ ३ ॥ सायमागतमतिथिं नापरुन्ध्यात् ॥ ४ ॥ नास्यानश्नन्गृहे वसेत् ॥ ५ ॥ यस्य नाश्नाति वासार्थी ब्राह्मणो गृहमागतः । सुकृतं तस्य यत्किंचित्सर्वमादाय गच्छति ॥ ६ ॥ एकरात्रं तु निवसन्मतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ७ ॥ नैकग्रामीण अतिथिविप्रः साङ्गतिकस्तथा । काले प्राप्ते अकाले वा नास्यानश्नन्गृहे वसेत् ॥ ८ ॥ श्रद्धाशीलोऽस्पृहयालुरलमग्न्याधेयाय नानाहिताग्निः स्यात् ॥ ९ ॥ अलं च सोमाय नासोमयाजी ॥ १० ॥ युक्तः स्वाध्याये यज्ञे प्रजनने च ॥ ११ ॥ गृहेष्वभ्यागतं प्रत्युत्थानासनवाक्सूनृतानसूयाभिर्महयेत् ॥ १२ ॥
VIII. 3. इन्धीन्वत Bh. E. H. 4. ॰अवरुन्ध्यात् F. 6. गच्छतीति Bh. E. H. 8. नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा F. H. प्राप्ते जले वा E. 10. सोमपानात्सोमयाजी F. 12. प्रत्युत्थानाशनशयनवाक् F. H.