वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 39, कुल 106 में से
संदर्भ में पढ़ें२५ यथाशक्ति चान्नेन सर्वाणि भूतानि ॥ १३ ॥ गृहस्थ एव यजते गृहस्थस्तप्यते तपः । चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥ १४ ॥ यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् । सागरे इति मनौ (६।८९) 'तथैवा' एवमाश्रमिनः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ १५ ॥ इति मनौ। यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः ॥ १६ ॥ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी । ऋतौ च गच्छन्विधिवच्च जुह्वन् न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ ब्रह्मलोकादिति ॥ १७ ॥ इति वासिष्ठधर्मशास्त्रेऽष्टमोऽध्यायः ॥ ८ ॥ वानप्रस्थो जटिलश्चीराजिनवासी ॥ १ ॥ ग्रामं च न प्रविशेत् ॥ २ ॥ न फालकृष्टमधितिष्ठेत् ॥ ३ ॥ अकृष्टं मूलफलं सञ्चिन्वीत ॥ ४ ॥ उर्ध्वरेताः ॥ ५ ॥ क्षमाशयः ॥ ६ ॥ मूलफलभैक्षेणाश्रमागतमतिथिमभ्यर्चयेत् ॥ ७ ॥ 13. सर्वभूतानि B. H. 14. च instead of तु F. H. गृहस्थस्तु F. H IX. 1. वानप्रस्थः प्रव्राजनो जटि° H. 3. °अभितिष्ठेत् H. 6. क्षामाशयः F 7. °भक्षेण° H.