वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 40, कुल 106 में से
संदर्भ में पढ़ें३६ दद्यादेव न प्रतिगृह्णीयात् ॥ ८ ॥ वानप्रस्थमुद्दिश्योक्तमिदमुदन्तं वचः। त्रिषवणमुदकोपस्पर्शी ॥ ९ ॥ श्रामणकेनाग्निमाधायाहिताग्निः स्यात् ॥ १० ॥ वृक्षमूलनिकेतन ऊर्ध्वं षड्भ्यो मासेभ्योनग्निरनिकेतः ॥ ११ ॥ दद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यमित्यानन्त्यम् ॥ १२॥ इति वासिष्ठधर्मशास्त्रे नवमोऽध्यायः ॥ ९ ॥ परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत ॥ १ ॥ अथाप्युदाहरन्ति । अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः । तस्यापि सर्वभूतेभ्यो न भयं जातु विद्यते ॥ २ ॥ अभयं सर्वभूतेभ्योदत्त्वा यस्तु निवर्त्तते । हन्ति जातानजातांश्च द्रव्याणि प्रतिगृह्य च ॥ ३ ॥ सन्न्यसेत्सर्वकर्माणि वेदमेकं न सन्न्यसेत् । वेदसन्न्यसनाच्छूद्रस्तस्माद्वेदं न सन्न्यसेत् ॥ ४ ॥ एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः । — अयं पूर्वार्द्धः २।८३ इत्यत्र मानवे दृश्यते। उपवासात्परं भैक्षं दया दानाद्विशिष्यत इति ॥ ५ ॥ मुण्डोममोपरिग्रहः ॥ ६ ॥ सप्तागाराण्यसङ्कल्पितानि चरेद्भिक्षाम् ॥ ७ ॥ विधूमे सन्नमुसले ॥ ८ ॥ एकशाटीपरिहितः ॥ ९ ॥ 8. द्रव्यादेव ते प्रति° H. 9. उदकमास्पृशेत् F. 10. श्रावणकेन B. Ban. ed. F. 11. आवर्णकेण E. Bh. 11. वृक्षमूलिकः B. F. H. X. 1. °पक्षिणां H. 4. सन्न्यजेत् instead of सन्न्यसेत् B. Ban. ed. H.5. °यामः F. H. मतः instead of तपः E. 6. अमयो° H. 7. भैक्षं F. H. सप्तगौराणि H. 9. °परिवृतः F.