वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 41, कुल 106 में से
संदर्भ में पढ़ें३७ अजिनेन वा गोप्रलूनैस्तृणैरवस्तृतशरीरः ॥ १० ॥ स्थण्डिलशायी ॥ ११ ॥ अनित्यां वसतिं वसेत् ॥ १२ ॥ ग्रामान्ते देवगृहे शून्यागारे वा वृक्षमूले वा ॥ १३ ॥ मनसा ज्ञानमधीयानः ॥ १४ ॥ अरण्यनित्यः ॥ १५ ॥ न ग्राम्यपशूनां सन्दर्शने विचरेत् ॥ १६ ॥ अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरुपेक्षकस्येति ॥ १७ ॥ अव्यक्तलिङ्गोऽव्यक्तचारः ॥ १८ ॥ अनुन्मत्त उन्मत्तवेषः ॥ १९ ॥ अथाप्युदाहरन्ति । न शब्दशास्त्रभिरतस्य मोक्षो न चापि लोकग्रहणे रतस्य । न भोजनाच्छादनतत्परस्य न चापि रम्यावसथप्रियस्य ॥ २० ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । (मनौ ६।५०।।) नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ २१ ॥ अलाभे न विषादी स्याल्लाभे नैव च हर्षयेत् । (मनौ ६।५७।।) प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विवर्जितः ॥ २२ ॥ 10. गोत्रलूनैः Bh. E H. 17. अथाप्युदाहरन्ति B. F. H. बुधः instead of ध्रुवाः E. 19. अनुन्मत्तवेणः H. 22. ॰विनिर्गतः B. F.