वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 42, कुल 106 में से
संदर्भ में पढ़ेंन कुट्यां नोदके सङ्गो न चैले न त्रिपुष्करे । नागारे नासने नान्ने यस्य वै मोक्षवित्तु स इति ॥ २३ ॥ ब्राह्मणकुले यावल्लभेत तद्भुञ्जीत सायं प्रातर्मधुमांसवर्जम् ॥ २४ ॥ न च तृप्येत् ॥ २५ ॥ ग्रामे वा वसेत् ॥ २६ ॥ अजिह्वोऽशढोऽशरणोऽवसङ्कुसुकः ॥ २७ ॥ न चेन्द्रियसंसर्गं कुर्वीत केनचित् ॥ २८ ॥ उपेक्षकः सर्वभूतानां हिंसानुग्रहपरिहारेण ॥ २९ ॥ पैशुन्यमत्सराभिमानाहङ्काराश्रद्धानानार्जवात्मस्तवपरगर्हादम्भलोभ- मोहक्रोधासूयाविवर्जनं सर्वाश्रमाणां धर्म इष्टः ॥ ३० ॥ यज्ञोपवीत्युदकमण्डलुहस्तः शुचिर्ब्राह्मणो वृषलान्नवर्जी न हीयते ब्रह्मलोकाद्ब्रह्मलोकादिति ॥ ३१ ॥ इति वासिष्ठधर्मशास्त्रे दशमोऽध्यायः ॥ १० ॥ षडर्हार्हा भवन्ति ॥ १ ॥ ऋत्विग्विवाह्यो राजापितृव्यस्नातकमातुलाश्च ॥ २ ॥ वैश्वदेवस्य सिद्धस्य सायं प्रातर्गृह्याग्नौ जुहुयात् ॥ ३ ॥ गृहदेवताभ्यो बलिं हरेत् ॥ ४ ॥ श्रोत्रियायाग्रभागं दत्त्वा ब्रह्मचारिणे वानन्तरं पितृभ्यो दद्यात् ॥ ५ ॥ ततोऽतिथिं भोजयेच्छ्रेयांसं श्रेयांसमानुपूर्व्येण ॥ ६ ॥ 23. कुड्यां F. H. 24. After this Sūtra F. only reads : यतीन्साधून्वा गृहस्थः तृप्येत् । 27. °अशवः instead of °अशढः Bh. E. अवसङ्कसुकः B. Ban. ed. E. 30. स्तेयं instead of असूया H. XI, 1. षडर्घ्याः Bh. E. H. 2. वैवाह्यः H. 5. श्रोत्रियायान्नं दत्त्वा H.